रसायन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसायनम्, क्ली, कटिः । इति राजनिर्घण्टः ॥ (रसो दुग्धं अयनं मूलं यस्येति ।) तक्रम् । इति हेम- चन्द्रः ॥ विषम् । (रसा रसरक्तादय ईयन्ते प्राप्यन्ते अनेनेति । इ + ल्युट् ।) ज्वराव्याधि- नाशकौषधम् । इति मेदिनी ॥ (यथा, माधे । २ । ९३ । “षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम् । भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥”) “न सूतेन विना कान्तं न कान्तेन विना रसः । सूतकान्तसमायोगात् रसायनमुदीरितम् ॥” इति राजनिर्घण्टः ॥ * ॥ अथ रसायनाधिकारः । तत्र रसायनस्य लक्षणमाह । “यज्जराव्याधिविध्वंसि वयसस्तम्भकन्तथा । चक्षुष्यं वृंहणं वृष्यं भेषजं तद्रसायनम् ॥” रसायनस्य फलमाह । “दीर्घमायुः स्मृतीर्मेधामारोग्यं तरुणं वयः । देहेन्द्रियबलं कान्तिं नरो विन्देद्रसायनात् ॥” तद्विधिमाह । “पूर्व्वे वयसि मघ्ये वा मनुष्यस्य रसायनम् । प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा ॥ नाविशुद्धशरीरस्य युक्तो रासायनो विधिः । न भाति वाससि श्लिष्टे रङ्गयोग इवाहितः ॥” वसुराद्यं शिवञ्चाद्यं मायाबिन्दुसमन्वितम् ॥ बीजत्रयञ्चाष्टशतं प्रजपेत् सम्बलोपरि । अशीतितोलकमानं कृष्णधेनुसमुद्भवम् ॥ दुग्धमानीय यत्नेन चाष्टोत्तरशतं जपेत् । वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत् ॥ उत्तापं ज्वालयेद्धीमान् मन्दमन्देन बह्निना । रिपुर्वेदार्द्धपर्य्यन्तमर्द्धशोषं भवेद्यदि ॥ तदैवोत्तोल्य तद्द्रव्यं दुग्धं तोये विनिक्षिपेत् ॥” ततः परीक्षा कर्त्तव्या । “निर्धूभं पावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः । तत्रैव प्रजपेन्मन्त्रं सर्व्वबन्धनमात्मकम् ॥ सार्द्धेन तोलकं ताम्रं दृष्ट्वा उत्थाप्य यत्नतः । गुञ्जाप्रमाणं तद्द्रव्यं सत्यं सत्यं हि शङ्करि ! । रौप्यं भवति तद्रव्यं नान्यथा शङ्करोदितम् ॥” प्रकारान्तरम् । “कृष्णसर्पमेकं गृहीत्वा तस्य मुखे शिववीर्य्यं पूर- यित्वा सर्पस्य मुखं गुदञ्च बद्धा नूतनमृण्मय- स्थालीमध्ये संस्थाप्य स्थालीमुखं मृदादिना संलिप्य निर्ज्जनस्थाने प्रातरारभ्य पुनःप्रात- र्यावत् बह्निना ज्वालं दद्यात् । ततः शुभक्षणे स्थालीमुखमुद्धृत्य सर्पभस्म विहाय शिववीर्य्यं गृह्णीयात् । ततस्तोलकमितं ताम्रं गालयित्वा तस्मिन् गालितताम्रे रक्तिकमात्रं तत् शिववीर्य्यं दद्यात् तेन तत्क्षणादेव तत्ताम्रं सुवर्णीभूतम् । आदौ शिवार्च्चनं कृत्वा पश्चात् प्रयोग एष कर्त्तव्यः ॥” इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेय- संवादे रसायनं नाम त्रयोदशः पटलः ॥)

रसायनः, पुं, गरुडः । बिडङ्गः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसायन¦ न॰ रसस्यायनभिव।

१ तक्रे हेमच॰

२ कट्याम्राजनि॰

३ विषभेदे वैद्यकप्रसिद्धे

४ औषधमेदे च

५ गरुडे

६ विडङ्गे च पु॰ मेदि॰।

६ त॰।

७ रसस्थाने च। औषधभेदलक्षणदि भावप्र॰ उक्तं यथा[Page4798-a+ 38]
“यज्जराव्याधिविध्वंसि वयसऽस्तम्भकन्तथा। चाक्षुष्यंवृंहणं वृष्यं भेषजं तद्रसायनम्”। रसायनस्य फल-माह
“दीर्घमायुः स्मृतीर्मेधामारोम्यं तरुणं वयः। देहेन्द्रियबलं कान्तिं नरो विन्देद्रसायनात्”। तद्विधिमाह
“पूर्वे वयसि मध्ये वा मनुष्यस्य रसाय-यनम्। प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा। नाविशुद्धशरीरसस्य र्युक्तो रसायनो विधिः। न भाति वाससि श्लिष्टे रङ्गुयोग इवाहितः”। (
“शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः। त्रिशः समस्तमथ वा प्राक् पीतं स्थापयेद्वयः। मण्डूक-पर्ण्याः स्वरसः प्रभाते प्रयोज्य यष्टीमधुकस्य चूर्णम्। रसो गुडूच्यास्तु समूलपुष्पः कल्कः प्रयोज्यः खलुशङ्खपुष्प्याः। आयुःप्रदान्यामयनाशनानि बलाग्निवर्ण-स्मरवर्द्धनानि। मेध्यानि चैतानि रसायनानि मेध्याविशेषेण च शङ्खपुष्पी”। मध्वूकपर्णी ब्राह्मी। (वरमी)इति लोके, तदलाभे मञ्जिष्ठापि ग्राह्या तस्या अपिरसायनत्वात्।
“माक्षिकेण तुगाक्षीर्य्या पिप्पल्यालवणेन च। त्रिफला सितया वापि युक्ता सिद्ध” रसायनम्। सिन्धूत्थं शर्करा शुण्ठी कणासधुगुडैःक्रमात्। वर्षादिष्वभया प्राश्या रसायनगुणैषिणा। पुन-र्नवस्यार्द्धपलं नवस्य पिष्टं पिबेद् यः पयसार्द्धमासम्। मासत्रयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवःस्यात्। ये मासमेकं स्वरसं पिवन्ति दिने दिने भृङ्ग-रजः समुत्थम्। क्षीराशिनस्ते वलवीर्य्ययुक्ताः ससाशतंजीवच{??}माप्नुवन्ति। शतावरी मुण्डितिका गुडूची सह-स्तिकर्णा सह तालमूली। एतानि कृत्वा समभागयुक्ता-न्याय्येन किं वा मधुनाऽवलिह्यात्। जरारुजामृत्यु-नियुक्तदेही भवेन्नरो वीर्य्यवलादियुक्तः। विभाति देव-प्रतिमः स नित्यं प्रभामयो भूरिविवृद्धबुद्धिः। पीताश्व-गन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा। वीर्य्यस्य पुष्टिं वपुषो विधत्ते वालस्य शस्यस्य यथा-म्बुवृष्टिः। अयःपलं गुग्गुलुरत्र योज्यः पलत्रयंव्योषपलानि पञ्च। पलानि चाष्टौ त्रिफलारजश्चकर्षं लिहन यात्यमरत्वमेव। न केवलं दीर्घमिहायुरश्नुते रसायनं योविविधं विषेवते। गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षयम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसायन¦ n. (-नं)
1. Alchemy, chemistry.
2. The employment of mercury in medicine.
3. A medicine preventing old age, and prolonging life, the Elixir Vitæ of the alchemists.
4. Poison.
5. Butter-milk. m. (-नः)
1. GARUDA
4.
2. An anthelmintic drug commonly Biranga, (Embelia ribes.)
2. An alchemist. f. (-नी) A vessel conveying nu- trition, a lacteal, an absorbent. E. रस juice, quicksilver, &c., अयन a road, a going, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसायन/ रसा m. a partic. drug used as a vermifuge (Embelia Ribes) L.

रसायन/ रसा m. an alchemist L.

रसायन/ रसा m. N. of गरुडL.

रसायन/ रसा n. (sometimes following the gender of the word to which it refers) a medicine supposed to prevent old age and prolong life , an elixir , elixir vitae (also applied to the first fructifying rains) MBh. Ka1v. etc.

रसायन/ रसा n. buttermilk L.

रसायन/ रसा n. poison L.

रसायन/ रसा n. long pepper (?) L.

रसायन/ रसा n. the employment of mercury as a remedy or for magical purposes W.

"https://sa.wiktionary.org/w/index.php?title=रसायन&oldid=503782" इत्यस्माद् प्रतिप्राप्तम्