रहस्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्यम्, त्रि, (रहसि भवम् । रहस् + दिगादि- न्वात् यत् । इत्युज्ज्वलः । ४ । २१४ ।) गोप- नीयम् । रहसि भवम् । इति मेदिनी अमरश्च ॥ रहस्यरोमस्पर्शनिषेधो यथा, -- “न सर्पशस्त्रैः क्रीडेत स्वानि स्वानि न संस्पृशेत् । रोसाणि च रहस्यानि नाशिष्टेन सदा व्रजेत् ॥” इति कौर्म्मे १५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=रहस्यम्&oldid=161168" इत्यस्माद् प्रतिप्राप्तम्