राक्षसः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षसः, पुं, रक्षन्त्यस्मात् रक्षः रक्ष एव राक्षसः । तत्पर्य्यायः । कौणपः २ क्रव्यात् ३ क्रव्यादः ४ अस्रपः ५ आशरः ६ रात्रिञ्चरः ७ रात्रि- चरः ८ कर्व्वूरः ९ निकषात्मजः १० यातु- धानः ११ पुण्यजनः १२ नैरृतः १३ यातु १४ रक्षः १५ । इत्यमरः ॥ सन्ध्यावलः १६ क्षपाटः १७ रजनीचरः १८ कीलापाः १९ नृचक्षाः २० नक्तञ्चरः २१ पलाशी २२ पलाशः २३ भूतः २४ । इति शब्दरत्नावली ॥ नीलाम्बरः २५ कल्माषः २६ कटप्रूः २७ अगिरः २८ कीला- लपाः २९ नरधिष्मणः ३० । इति जटाधरः ॥ तस्योत्पत्तिर्यथा, -- “रजोमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् । ततः क्षुद्ब्रह्मणो जाता जज्ञे कोपाश्रयात्ततः ॥ क्षुत्क्षामानन्याकारांश्च सोऽसृजद्भगवांस्ततः । विरूपाः श्मश्रुला जातास्तेऽभ्यधावन्त तं प्रभुम् ॥ नैवं भो रक्ष्यतामेष तैरुक्तं राक्षसास्तु ते ॥” इति वह्निपुराणम् ॥ * ॥ अपि च । “रक्षोगणं क्रोधवशात् स्वनामानमजीजनत् । दंष्ट्रिणां नियुतं तेषां भीमसेनाद्गतं क्षयम् ॥” इति मात्स्ये आदिसर्गे कश्यपान्वयनाम ६ अध्यायः ॥ * ॥ राक्षसभोज्यान्नानि यथा, -- “क्षुत्कीटाद्युपपन्नञ्च यच्चोच्छिष्टान्वितं भवेत् । केशावपन्नमाधूतं मारुतश्वासवद्भवेत् ॥ एभिः संस्पृष्टमन्नञ्च भागो वै रक्षसो भवेत् । तस्माज्ज्ञात्वा सदा विद्वानन्नान्येतानि वर्ज्जयेत् ॥ राक्षसा नाम ये प्रोक्तास्ते भुञ्जन्त्यन्नमीदृशम् ॥” इति वामणपुराणे ३९ अध्यायः ॥ * ॥ तेषां विहारः सूर्य्यलोकादधः । यथा, -- “अन्तीक्षचरा ये च भूतप्रेतपिशाचकाः । वर्ज्जयित्वा रुद्रगणांस्ते तत्रैव चरन्ति हि ॥ नोर्द्धं विक्रमणे शक्तिस्तेषां सम्भूतपाप्मनाम् । अत ऊर्द्ध्वं हि विप्रेन्द्र राक्षसा ये कृतैनसः । ते तु सूर्य्यादधः सर्व्वे विहरन्त्यूर्द्धवर्ज्जिताः ॥” इति पाद्मे स्वर्गखण्डे १५ अध्यायः ॥ * ॥ (अनेनाधिष्ठितस्य रोगिनो लक्षणं यथा, -- “सक्रोधदृष्टिं भ्रुकुटीमुद्वहन्तं ससंभ्रमम् । प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम् ॥ अन्नाद्विनापि बलिनं नष्टनिद्रं निशाचरम् । निर्ल्लज्जमशुचिं शूरं क्रूरं परुषभाषिणम् ॥ रोषणं रक्तमाल्यस्त्रीरक्तमद्यामिषप्रियम् । दृष्ट्वा च रक्तं मांसं वा लिहानं दशनच्छदौ । हसन्तमन्नकाले च राक्षसाधिष्ठितं वदेत् ॥” इति वाग्भटे उत्तरस्थाने चतुर्थेऽध्याये ॥) अष्टप्रकारविवाहान्तर्गतविवाहविशेषः । यथा, “आसुरो द्रविणादानाद्गान्धर्व्वः समयान्मिथः । राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥” इत्युद्वाहतत्त्वम् ॥ (एतल्लक्षणान्तरञ्च यथा, मनुः । ३ । ३३ । “हत्वा च्छित्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥” राक्षसविवाहस्तु क्षत्त्रियस्यैव प्रशस्तः । यथा, तत्रैव । ३ । २४ । “चतुरो ब्रह्मणस्याद्यान् प्रशस्तान् कवयो विदुः । राक्षसं क्षत्त्रियस्यैकं आसुरं वैश्यशूद्रयोः ॥” निन्द्यप्रजोत्पतिजनकतया तु ब्राह्माद्यपेक्षया राक्षसादिविवाहस्य गर्हितत्वमाह तत्रैव । ३ । ४१ -- ४२ । “इतरेषु च शिष्टेषु नृशंसानृतवादिनः । जायन्ते दुर्व्विवाहेषु ब्रह्मधर्म्मद्बिषः सुताः ॥ अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विव- र्ज्जयेत् ॥” * ॥ अब्दविशेषे, पुं, क्ली । यथा, बृहत्संहिता- याम् । ८ । ४५ । “इन्द्राग्निदैवं दशमं युगं यत् तत्राद्यमब्दं परिधाविसंज्ञम् । प्रमाद्ययानन्दमतःपरं यत् स्याद्राक्षसं चानलसंज्ञितञ्च ॥”) रक्षःसम्बन्धिनि, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=राक्षसः&oldid=161177" इत्यस्माद् प्रतिप्राप्तम्