राग

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रागः, पुं, (रञ्जनमिति रज्यतेऽनेनेति वा । रञ्ज + भावे करणे वा घञ् । “घञि च भाव- करणयोः ।” ६ । ४ । २७ । इति नलोपः ।) मात्स्यर्य्यम् । लोहितादिः । (यथा, कुमारे । ३ । ३० । “रागेण बालारुणकोमलेन चूतप्रबालोष्ठमलञ्चकार ॥”) क्लेशादिः । अनुरागः । (यथा, आर्य्यासप्त- शत्याम् । २७० । “तानवमेत्य छिन्नः परोपहितरागमदन- सङ्घटितः । कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥”) गान्धारादिः । नृपः । इति मेदिनी ॥ चन्द्रः ॥ सूर्य्यः । इति शब्दरत्नावली ॥ लाक्षादिः । (यथा, कुमारे । ४ । १९ । “तमिमं कुरु दक्षिणेतरं चरणं निर्म्मितरागमेहि मे ॥”) रक्तिमत्विट् । रञ्जनम् । इति नानार्थरत्न- माला ॥ प्रीतिः । यथा, -- “वीतरागभयक्रोधस्थितधीर्म्मुनिरुच्यते ॥” इति भगवद्गीताश्लोकटीकायां श्रीधरस्वामी ॥ तस्य लक्षणं यथा, -- “सुखमप्यधिकं चित्ते सुखत्वेनैव रज्यते । यतस्तु प्रणयोत्कर्षात् स राग इति कीर्त्त्यते ॥” इत्युज्ज्वलनीलमणिः ॥ * ॥ (अभिमतविषयाभिलाषः । स तु पञ्चक्लशान्त- र्गतः । यथा, -- “अविद्यास्मितारागद्वेशाभिनिवेशाः पञ्च- क्लेशाः । रागोऽभिमतविषयाभिलाषः ।” इति शिशुपालवधटीकायां मल्लिनाथः । ४ । ५६ ॥ “सुखानुशयी रागः ।” इति पतञ्जलिः । गान- शास्त्रीयरागा यथा । भरतमते हनूमन्मते च रागः षड्विधः । तेषां नामानि यथा । भैरवः १ कौशिकः २ हिन्दोलः ३ दीपकः ४ श्रीरागः ५ मेघः ६ । हनूमद्भरतयोर्म्मते प्रत्येक- मेषां पञ्च रागिण्यः । सोमेश्वरकल्लिनाथयोर्म्मते प्रत्येकमेतेषां षट् रागिण्यः । एतेषां प्रत्येक- मष्टौ पुत्त्राः एकैकपुत्त्रभार्य्या च । कल्लिनाथ- सोमेश्वरमते षड्रागा यथा । श्रीरागः १ वसन्तः २ पञ्चमः ३ भैरवः ४ मेघः ५ नट- नारायणः ६ । इति नानासंगीतशास्त्रम् ॥ * ॥ अथ रागस्य व्युत्पत्तिसंख्यास्थानानि । “यैस्तु चेतांसि रज्यन्ते जगत्त्रितयवर्त्तिनाम् । ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः ॥ गोपीभिर्गीतमारब्धमेकैकं कृष्णसन्निधौ । तेन जातानि रागाणां सहस्राणि तु षोडश ॥ रागेषु तेषु षट्त्रिंशद्रागा जगति विश्रुताः । अथ रागाणामुद्भवं दर्शयति । “शिवशक्तिसमायोगाद्रागाणां सम्भवो भवेत् । पञ्चास्यात् पञ्च रागाः स्युः षष्ठस्तु गिरिजा- मुखात् ॥ सद्योवक्त्रात्तु श्रीरागो वामदेवाद् वसन्तकः । अघोराद् भैरवोऽभूत् तत्पुरुषात् पञ्चमो- ऽभवत् ॥ ईशानाख्यान्मेघरागो नाट्यारम्भे शिवादभूत् । गिरिजाया मुखाल्लास्ये नट्टनारायणोऽभवत् ॥” अथ रागवेला । “मधुमाधवी च देशाख्या भूपाली भैरवी तथा । वेलावली च मल्लारी वल्लारी सोमगुर्ज्जरी ॥ धनाश्रीर्मालवश्रीश्च मेघरागश्च पञ्चमः । देशकारी भैरवश्च ललिता च वसन्तकः ॥ एते रागाः प्रगीयन्ते प्रातरारभ्य नित्यशः । गुर्ज्जरी कौशिकश्चैव सावेरी पठमञ्जरी ॥ रेवा गुणकिरी चैव भैरवी रामकिर्य्यपि । सौराटी च तथा गेया प्रथमप्रहरोत्तरम् ॥ वैराटी तोडिका चैव कामोदी च कुडायिका । गान्धारी नागशब्दी च तथा देशी विशेषतः । शङ्कराभरणो गेयो द्बितीयप्रहरात् परम् ॥ श्रीरागो मालवाख्यश्च गौरी त्रिवणसंज्ञिका । नट्टकल्याणसंज्ञश्च सारङ्गनट्टकौ तथा ॥ सर्व्वे नाटाश्च केदारी कर्णाट्याभीरिका तथा । वडहंसी पहाढी च तृतीयप्रहरात् परम् । अर्द्धरात्रावधि ज्ञेया एते रागाः सुखप्रदाः ॥ यथोक्तकाल एवैते गेयाः पूर्व्वविधानतः । राजाज्ञया सदा गेया न तु कालं विचारयेत् ॥” इति रागवेला । अथ ऋतवः । “श्रीरागो रागिणीयुक्तः शिशिरे गीयते बुधैः । वसन्तः ससहायस्तु वसन्तर्त्तौ प्रगीयते ॥ भैरवः ससहायस्तु ऋतौ ग्रीष्मे प्रगीयते । पञ्चमस्तु तथा गेयो रागिण्या सह शारदे ॥ मेघरागो रागिणीभिर्युक्तो वर्षासु गीयते । नट्टनारायणो रागो रागिण्या सह हेमके ॥ यथेच्छया वा गातव्याः सर्व्वर्त्तुषु सुखप्रदाः ॥” इति रायाणां ऋतुनिर्णयः । इति सोमेश्वर- मतम् ॥ * ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राग¦ पु॰ रन्ज--भावे घञ् नि॰ नलोपकुत्वे।

१ रञ्जने

२ शुक्लादिवर्णे

३ प्रीतौ

४ अनुरामे

५ नृपे

६ मालवादिना-मभिः प्रसिद्धे निषादादिस्वरयोनिके खरभेदे मेदि॰

७ चन्द्रे

८ सूर्य्ये च शब्दर॰। करणे घञ्।

९ लोहितवर्णे

१० तद्विशिष्टलाक्षादौ च
“तेन रक्तं रागात्” पा॰अनुरागलक्षणम् उज्ज्वलमणिनोक्तं यथा
“सुखमप्यधिकंचित्ते सुखत्वेनैव रज्यते। यतस्तु प्रणयोत्कर्षात् स रागइति कम्यते”। स्वरभेदनिरुक्तिर्यथा
“यैस्तु चेतांसिरज्यन्ते जगत्त्रितयवर्त्तिनाम्। ते रागा इति कथ्यन्तेमुनिभिर्भरतादिभिः” तेषां भेदाः संगीतदा॰ मतसभेदेनाना तत्र प्रसिद्धा षड भेदा यथा[Page4801-a+ 38](
“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः। श्रीरोगश्चततः पश्चात् वसन्तस्तदन्तरम्। हिन्दोलश्चाथ कर्णाटएते रागाः षडे च तु” सङ्गीतदा॰। भरतमते तु
“भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा। श्रीरागोमेघरागश्च रागाः षडिति कीर्त्तिताः”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राग¦ m. (-गः)
1. Colour, hue, tint. dye.
2. A flection, prepossession, love, desire.
3. Mental affection in general, as sorrow, joy, &c.
4. Envy, impatience of another's success.
5. A mode of music; of which six are enumerated, viz.:--Bhairava, Kausika, Sri4ra4ga, Hindo4la, Dipaka, and Me4gha; they are personified in poe- try and mythology.
6. A king, a sovereign.
7. The Raja Gu4na, the property or quality of passion.
8. Greediness, cupidity.
9. Colouring, painting, dying. f. (-गी) A sort of grain, commonly Raggy, much cultivated in the south of India, (Eleusine corocana, or Cynosurus corocanus.) E. रञ्ज् to colour, &c., aff. घञ् | [Page600-b+ 60]

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रागः [rāgḥ], [रञ्ज्-भावे घञ् नि˚ नलोपकुत्वे]

(a) Colouring, dyeing, tinging. (b) Colour, hue, dye; वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायीभवति चात्यन्तं रागः शुक्लपटे यथा ॥ Pt.1.33.

Red colour, redness; अधरः किसलयरागः Ś.1.21; Śi.8.15; Ki.16.46.

Red dye, red lac; रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार Ku.3.3;5.11.

Love, passion, affection, amorous or sexual feeling; मलिने$पि रागपूर्णाम् Bv.1.1 (where it means 'redness' also); Śi.17.2; अथ भवन्तमन्तरेण कीदृशो$स्या दृष्टिरागः Ś.2; see चक्षूराग also; चरणयुगलादिव हृदयमविशद्रागः K.142.

Feeling, emotion, sympathy, interest.

Joy, pleasure.

Anger, wrath; निध्वनज्जवहारीभा भेजे रागरसात्तमः Śi. 19.34.

Loveliness, beauty.

A musical mode or order of sound; (there are six primary Rāgas; भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा । श्रीरागो मेघरागश्च रागाः षडिति कीर्तिताः Bharata; other writers give different names. Each rāga has six rāgiṇīs regarded as its consorts, and their union gives rise to several musical modes).

Musical harmony, melody; तवास्मि गीतरागेण हारिणा प्रसभं हृतः Ś.1.5; अहो रागपरिवाहिणी गीतिः Ś.5.

Regret, sorrow.

Greediness, envy; 'रागस्तु मात्सर्ये लोहिता- दिषु' Medinī.; राजकामस्य मूढस्य रागोपहतचेतसः Mb.7.85. 54.

The quality called Rajas q. v.

Nasalization.

A process in the preparation of quicksilver.

A king, prince.

The sun.

The moon.

Inflammation.

Seasoning, condiment; Mb.4.-Comp. -अङ्गी, -आढ्या Rubia Munjiṣṭa (Mar. मञ्जिष्ठा).-अशनिः a Buddha or Jina. -आत्मक a. impassioned; रजो रागात्मकं विद्धि Bg.14.7. -आयातम्, -उद्रेकः excess of passion. -खाडव, -खाण्डव See रागषाडव; a kind of sweet rice preparation; रागखाण्डवभोज्यैश्च मत्ताः पतिषु शेरते Mb.7. 61.8 (com. रागखाण्डवं गुडोदनं पर्पटिकेति वैदर्भाः).

चूर्णः Acasia Catechu or Khadira tree.

red lead.

lac.

red powder thrown by people over one another at the festival called holi.

the god of love. -छन्नः the god of love. -द्रव्यम् a colouring substance, a paint, dye. -दः cristal. -दालिः a kind of pulse (मसूर). -दृश् a ruby. -पट्टः a kind of precious stone. (-ट्टी) the chinese rose. -पुष्पः, -प्रसवः the red globe-amaranth.-बन्धः manifestation of feeling, interest created by a proper representation (of various emotions); भावो भावं नुदति विषयाद्रागबन्धः स एव M.2.9. -युज् m. a ruby.-रज्जुः the god of love. -लता N. of Rati, wife of Cupid.-लेखा a streak or mark of paint. -वर्धनः (in music) a kind of measure. -वृन्तः the god of love. -षाडवः a kind of sweetmeat.

सूत्रम् any coloured thread.

a silk-thread.

the string of a balance.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राग m. (fr. रञ्ज्; ifc. आ, or ई)the act of colouring or dyeing(See. मूर्धज-र्)

राग m. colour , hue , tint , dye , ( esp. ) red colour , redness MBh. Ka1v. etc.

राग m. inflammation Car.

राग m. any feeling or passion , ( esp. ) love , affection or sympathy for , vehement desire of , interest or joy or delight in( loc. or comp. ) Up. Mn. MBh. etc.

राग m. loveliness , beauty ( esp. of voice or song) S3ak. Pan5cat.

राग m. a musical note , harmony , melody (in the later system a partic. musical mode or order of sound or formula ; भरतenumerates 6 , viz. भैरव, कौशिक, हिन्दोल, दीपक, श्री-राग, and मेघ, each mode exciting some affection ; other writers give other names ; sometimes 7 or 26 रागs are mentioned ; they are personified , and each of the 6 chief रागs is wedded to 5 or 6 consorts called रागिणीs ; their union gives rise to many other musical modes) Bhar. Sam2gi1t. Ra1jat. Pan5cat. etc.

राग m. nasalization , Rpra1t.

राग m. a partic. process in the preparation of quicksilver Sarvad.

राग m. seasoning , condiment Car.

राग m. a prince , king L.

राग m. the sun L.

राग m. the moon L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--carries away भूत; leads to सम्सार and its ills; विषयराग, reason for re-birth. वा. १०२. ६७, ६९.

"https://sa.wiktionary.org/w/index.php?title=राग&oldid=503793" इत्यस्माद् प्रतिप्राप्तम्