रागिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रागिणी, स्त्री, (रागोऽस्त्यस्या इति । राग + इनिः । ङीप् ।) विदग्धा नारी । इति जटा- घरः ॥ मेनकाया ज्येष्ठकन्या । यथा, -- “रागिणी नाम संजाता ज्येष्ठा मेनासुता मुने । शुभाङ्गी पद्मपत्राक्षी नीलकुञ्चितमूर्द्धजा ॥” इति वामनपुराणे ४८ अध्यायः ॥ जयश्रीनाम्नी लक्ष्मीः । इति पुराणम् ॥ षड्- रागाणां पत्नी । इति हलायुधः ॥ सा तु हनूमन्मते भरतमते च त्रिंशत्प्रकारा । सोमे- श्वरमते कल्लिनाथमते च षट्त्रिंशत्प्रकारा ॥ आसां विवरणं रागशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रागिणी¦ स्त्री रागोऽस्त्यस्या इनि।

१ गीत्यङ्गे स्वरभेदेरागपत्न्यां सङ्गीतदा॰।

२ विदग्धनार्य्यां जटा॰।

३ मेनकाकन्यायां रागवति

४ अनुरक्ते

५ कामुके त्रि॰ विश्वःरन्ज--धिणुन्।

६ रतियुक्ते च त्रि॰।

६ तृणधान्यभेदेमेदि॰। एकैकरागे षट् रागिण्य इति षट्सु रागेषुरागिणीभेदाश्च षट्त्रिंशत् यथा
“षट्त्रिंशद्रागिणीभेदाः क्रमशः कथिता मया। धामसी

१ मालसी

२ चैव रामकीरी

३ च सिम्बुडा

४ । आशावरी

५ भैरवी

६ च मालवस्य (

१ ) प्रिया इमाः। वेलावली

१ पुरवी

२ च कानडा

३ माधवी

४ तथा। कोडा

५ केदा-रिका

६ चापि मल्लार (

२ ) दयिता इमाः। गान्धारी

१ सुभगा

२ चैव गौरी

३ कौमारिका

४ तथा। वेलोयारी

५ च वैरागी

६ श्रीरागस्य (

३ ) प्रिया इमाः। तुडी

१ चपञ्चमी

२ चैव ललिता

३ पटमञ्जरी

४ । गुर्जरी

५ च वि-भाषा

६ च वसन्तस्य (

४ ) प्रिया इमाः। मायूरी

१ दी-पिका

२ चैव देशकारी

३ च पाहिडी

४ । वराडी

५ मोरहाटी

६ च हिल्लोलस्य (

५ ) प्रिया इमाः। नाटिकाचाथ भूपाली

२ रामकेली

३ गडा

४ तथा। का-मोदा

५ चाथ कल्याणी

६ कर्णाठस्य (

६ ) प्रिया इमाः”। [Page4801-b+ 38] सङ्गीतदा॰। तद्गानकालभेदाः तत्पुत्रादयश्च तत्रैव दृश्याः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रागिणी f. a modification of the musical mode called राग(See. ; 35 or 36 रागिणीs are enumerated) Sam2gi1t. Pan5car. S3ukas.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RĀGIṆĪ : A celestial woman, daughter of Himavān and elder sister of Pārvatī. (For details see under Pārvatī).


_______________________________
*1st word in left half of page 626 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रागिणी&oldid=503794" इत्यस्माद् प्रतिप्राप्तम्