राजस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजसः, त्रि, (रजसो भवः । रजस् + अण् ।) रजोगुणोद्भवः । लल्लक्षणं यथा, -- “आरम्भरुचिताधैर्य्यमसत्कार्य्यपरिग्रहः । विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥” आरम्भरुचिता फलार्थं कर्म्मानुष्ठानशीलता ॥ * ॥ संक्षेपतस्तल्लक्षणं यथा, -- “येनास्मिन् कर्म्मणा लोके ख्यातिमिच्छति पुष्कलाम् । न च शोचत्यसम्पत्तौ तद्विज्ञेयन्तु राजसम् ॥” तस्माद्गतिर्यथा, -- “देवत्वं सात्त्विका यान्ति मनुष्यत्वञ्च राजसाः । तिर्य्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ॥” तद्गतिप्रकारा यथा, -- “झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः । द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ॥ राजानः क्षत्त्रियाश्चैव राज्ञश्चैव पुरोहिताः । वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥ गन्धर्व्वा गुह्यका यक्षा विबुधानुचराश्च ये । तथैवाप्सरसः सर्व्वा राजसीषूत्तमा गतिः ॥” इति वामने १२ अध्यायः ॥ राजसाहारा यथा, -- “कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥” राजसयज्ञो यथा, -- “अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥” राजसतपो यथा, -- “सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥” * ॥ राजसदानं यथा, -- “यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥” इति श्रीभगवद्गीतायाम् १७ अध्यायः ॥ राजसत्यागो यथा, -- “दुःखमित्येव यत् कर्म्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसत्यागं नैव त्यागफलं लभेत् ॥” राजसज्ञानं यथा, -- “पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्- विधान् । वेत्ति सर्व्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥” राजसकर्म्म यथा, -- “यत्तु कामेप्सुना कर्म्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥” * ॥ राजसकर्त्ता यथा, -- “रागी कर्म्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः ॥” राजसी बुद्धिर्यथा, -- “यया धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥” राजसी धृतिर्यथा, -- “यया तु धर्म्मकामार्थान् धृत्या धारयते- ऽर्ज्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥” राजससुखं यथा, -- “विषयेन्द्रियसंयोगात् यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत् सुखं राजसं स्मृतम् ॥” इति श्रीभगवद्गीतायाम् १८ अध्यायः ॥ * ॥ राजसपुराणानि यथा, -- “ब्रह्माण्डं ब्रह्मवैवर्त्तं मार्कण्डेयं तथैव च । भविष्यं वामनं ब्राह्मं राजसानि निबोधत ॥” ॥ राजसस्मृतयो यथा, -- “च्यावनं याज्ञवल्क्यञ्च आत्रेयं दाक्षमेव च । कात्यायनं वैष्णवञ्च राजसाः स्वर्गदा मताः ॥” इति पाद्मोत्तरखण्डे ४३ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजस¦ त्रि॰ रजसा निर्मितः अण्। रजसोगुणात् जाते

१ कर्मेन्द्रियादौ
“येनास्मिन् कर्मणा लोके ख्यातिमाप्नोतिपुष्कलाम्। न च शोचत्यसम्पत्तौ तद्विज्ञेयन्तु राजसम्” इत्युक्ते ख्यात्यै क्रियमाणे

२ कर्मणि च। रजः{??}तयास्त्यस्य अण्।

३ रजःप्रधाने। सर्वेषां वस्तूनां त्रिगु-णात्मफत्वेऽपि
“भूयस्त्वात्तद्व्यपदेशः” इत्युक्तेः क्वचित्तत्प्रधानत्वेन व्यपदेशः।

४ दूर्वायां स्त्री ङीप् शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजस¦ mfn. (-सः-सी-सं) Relating to, or derived, &c. from the quality of Rajas or passion. f. (-सी)
1. The goddess DURGA
4.
2. The state of being in this world or the next, in which the Raja Gun4a or quality of passion predominates: it is divided into three classes: the first class comprises the Gandharbas, Yakshas, Guhyakas, &c.; the second king and heroes, and the third, boxers, wrestlers, gamb- lers, tipplers, actors, &c. E. रजस् the quality of passion, अण् and ङीप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजस [rājasa], a. (-सी f.) [रजसा निर्मितम् अण्] Relating to or influenced by the quality rajas, endowed with the quality rajas or passion; ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः Bg.14.18;7.12;17.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजस mfn. belonging or relating to the quality रजस्(See. ) , endowed with or influenced by the quality of passion , passionate(676949 -त्वn. ) MaitrUp. Mn. MBh. etc.

राजस m. pl. N. of a class of gods in the 5th मन्व्-अन्तरVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--otherwise known as केतुमान्, a लोकपाल; फलकम्:F1: Br. II. २१. १५७; M. १२४. ९५.फलकम्:/F attained heaven by तपस्। फलकम्:F2: Ib. १४३. ३८.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=राजस&oldid=436141" इत्यस्माद् प्रतिप्राप्तम्