रामनवमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामनवमी, स्त्री, (रामस्य जन्मतिथिरूपा नवमी । मध्यपदलोपिकर्म्मधारयः ।) चैत्रशुक्लनवमी । सा च श्रीरामचन्द्रस्य जन्मतिथिः । यथा, -- “अगस्त्यसंहितायाम् । ‘चैत्रे मासि नवम्यान्तु जातो रामः स्वयं हरिः । पुनर्व्वस्वृक्षसंयुक्ता सा तिथिः सर्व्वकामदा ॥ पुनर्व्वस्वृक्षसंयोगः स्वल्पोऽपि यदि लभ्यते । चैत्रशुक्लनवम्यान्तु सा तिथिः सर्व्वकामदा ॥ श्रीरामनवमी प्रोक्ता कोटिसूर्य्यग्रहाधिका । तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः । यत्किञ्चित् क्रियते कर्म्म तद्भवक्षयकारकम् ॥ उपोषणं जागरणं पितॄनुद्दिश्य तर्पणम् । तस्मिन् दिने तु कर्त्तव्यं ब्रह्मप्राप्तिमभीप्सुभिः ॥’ चैत्रपदं चान्द्रपरम् । ‘मेषं पूषणि संप्राप्ते लग्ने च कर्कटाह्वये । आविरासीत् सकलया कौशल्यायां परःपुमान् ॥’ योगेऽपि अष्टमीविद्धायाम् । पारणयोग्या चेत् तदा अष्टमीविद्धां त्यक्त्वा परेऽहनि उपवासः ।” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामनवमी¦ स्त्री रामस्य जन्माधारो नवमी। चैत्तशुक्ल-नवम्याम्।
“चैत्रे मासि नवम्यान्तु जातो रामः खयंहरिः” अगस्त्यसंहिता।
“प्राप्ते श्रीरामनवमीदिनेमर्त्यो विमूढवीः। उपोषणं न कुरुते कुम्भीपाके{??}पच्यते” ति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामनवमी¦ f. (-मी) The ninth day in the light-half of Chaitra, the anni- versary of the birth of RA4MACHANDRA.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामनवमी/ राम--नवमी f. N. of the 9th day in the light half of the month चैत्र(being the birthday of राम-चन्द्र) Ra1matUp. RTL. 430

"https://sa.wiktionary.org/w/index.php?title=रामनवमी&oldid=503836" इत्यस्माद् प्रतिप्राप्तम्