रामबाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामबाणः, पुं, (रामस्य बाण इव सफलत्वात् ।) औषधविशेषः । यथा । रसेन्द्रचिन्तामणौ । “पारदामृतलवङ्गगन्धकं भागयुग्ममरिचेन मिश्रितम् । तत्र जातिफलमर्द्धभागिकं तित्तिलीफलरसेन मर्द्दितम् ॥ वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः । संग्रहग्रहणीकुम्भकर्णक- मामवातखरदूषणं जयेत् ॥ दीयते तु चणकानुमानतः सद्य एव जठराग्निदीपनः । रोचकः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः ॥” पाराभागः १ विषभागः १ लवङ्गभागः १ गन्धकभागः १ मरिचभागः ८ जायफलभागः २ । रामबाणो रसोऽजीर्णे । इति भावप्रकाशः ॥ (शरवृक्षभेदः । इति राजनिर्घण्टः ॥ राम- शरश्च ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामबाण¦ पु॰ रसभेदे भावप्र॰। (
“पारदा{??}तलवङ्गगन्धक मागयुग्ममरिचेन मिश्रितम्। तत्र जातिफलमर्द्धभागिकं तिन्तिलीफलरसेन मर्द्दितम्। वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः। संग्रहग्रहणिकुम्भकर्णकमामवातखरदूषणं जयेत्। दीयतेतु स्वबलानुमानतः सद्य एव जठराग्निदीपन। रोचकःकफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः” भावप्र॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामबाण/ राम--बाण m. a species of cane L.

रामबाण/ राम--बाण m. a partic. medicinal preparation Bhpr.

"https://sa.wiktionary.org/w/index.php?title=रामबाण&oldid=399957" इत्यस्माद् प्रतिप्राप्तम्