राल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रालः, पुं, सालवृक्षनिर्यासः । धुना इति भाषा । तत्पर्य्यायः । सर्ज्जरसः २ सालः ३ कनक- लोद्भवः ४ ललनः ५ सालनिर्यासः ६ देवेष्टः ७ शीतलः ८ बहुरूपः ९ सालरसः १० सर्ज्ज- निर्यासकः ११ सुरभिः १२ सुरधूपः १३ यक्ष- धूपः १४ अग्निवल्लभः १५ कलः १६ कल- लजः १७ । अस्य गुणाः । शिशिरत्वम् । स्निग्धत्वम् । कषायत्वम् । तिक्तत्वम् । संग्रह- त्वम् । वातपित्तस्फोटकण्डूव्रणनाशित्वञ्च । अस्य पानलेपगुणौ । शिशिरत्वम् । प्रदरामयशान्ति- कारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “रालस्तु सालनिर्यासस्तथा सर्ज्जरसः स्मृतः । देवधूपो यक्षधूपस्तथा सर्व्वरसश्च सः ॥ रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् । दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः । ग्रहभग्नाग्निदग्धांश्चमूलातीसारनाशनः ॥” इति भावप्रकाशः ॥
अमरकोशः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राल पुं।
रालः
समानार्थक:यक्षधूप,सर्जरस,राल,सर्वरस,बहुरूप
2।6।127।2।3
कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत्. यक्षधूपः सर्जरसो रालसर्वरसावपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राल¦ पु॰ रा--अलच्। सालवृक्षनिर्य्यासे (धुना) भावप्र॰।
“रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत्। दोपास्रस्वेदवीसर्पज्वरव्रणविपादिकाः। ग्रहमग्नाग्नि-दग्धांश्च शूलातीसारनाशनः” भावप्र॰।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राल¦ m. (-लः) Resin, the resinous and fragrant exudation of the Shorea robusta. “धुना”। E. रा to give or get, aff. अलच्; also अराल |
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रालः [rālḥ], The resin of the Sāla tree. -Comp. -कार्यः the Sāla tree.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राल रालकor रालिm. the resin of Shorea Robusta L.