रुचि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिः, स्त्री, (रुच्यते इति । रुच् + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । सच कित् ।) अभिष्वङ्गः । अनुरागः । आशक्तिर्वा । स्पृहा । (यथा, किराते । १० । ६२ । “रुचिकरमपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे ॥” “अम्लो रुचिकरो हृद्यः प्रीणनो वह्निदीपनः ॥” इति वैद्यकराजवल्लभे द्रव्यगुणव्याख्यायाम् ॥) अभिलाषः । गभस्तिः । किरणः । इत्यमर- भरतौ ॥ शोभा । इति मेदिनी ॥ (यथा, रघुः । ५ । ६७ । “लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽयि त्वदाननरुचिं विजहाति चन्द्रः ॥”) बुभुक्षा । इति हेमचन्द्रः ॥ गोरोचना । इति राजनिर्घण्टः ॥ आलिङ्गनविशेषः । तल्लक्षणं यथा । नायिकाया नायकस्य संमुखे जान्वो- रुपर्य्युपविश्य वक्षसि वक्षो दत्त्वा यदवस्थानम् । इति कामशास्त्रम् ॥

रुचिः, पुं, (रोचते शोभते इति । रुच् + इन् । सच कित् ।) प्रजापतिविशेषः । स च रौच्य- मनुपिता । यथा, -- मार्कण्डेय उवाच । “रुचिः प्रजापतिः पूर्व्वं निर्म्ममो निरहङ्कृतिः । यत्रास्तमितशायी च चचार पृथिवीमिमाम् ॥ अनग्निमनिकेतन्तमेकाहावसथाश्रयम् । विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ॥ पितर ऊचुः । वत्स कस्मात् त्वया पुण्यो न कृतो दारसंग्रहः । स्वर्गापवर्गहेतुत्वाद्बन्धस्तेनानिशं विना ॥ गृही समस्तदेवानां पितॄणाञ्च तथार्हणाम् । ऋषीणामतिथीनाञ्च कुर्ब्बन् लोकानुपाश्नुते ॥ स्वाहोच्चारणतो देवान् स्वधोच्चारणतः पितॄन् । विभजन्नन्नदानेन भूताद्यानतिथीनपि ॥ स त्वं दैवादृणाद्बन्धं बन्धमस्मदृणादपि । आवाप्नोषि मनुष्यर्षिभूतेभ्यश्च दिने दिने ॥ अनुत्पाद्य सुतान् देवानसन्तर्प्य पितॄंस्तथा । भूतादींश्च कथं मौढ्यात् सुगतिं गन्तुमिच्छसि ॥ रुचिरुवाच । परिग्रहोऽतिदुःखाय पापायाधोगतेस्तथा । भवत्यतो मया पूर्ब्बं न कृतो दारसंग्रहः ॥ प्रक्षाल्यतेऽनुदिवसं यदात्मा निष्परिग्रहैः । ममत्वपङ्कदिग्धोऽपि चिन्ताम्भोभिर्व्वरं हि तत् ॥” इत्यादि ॥ पितर ऊचुः । “युक्तं प्रक्षालनं कर्त्तुमात्मनो नियतेन्द्रियैः । अस्माकमेतत् पुरुषैस्तृप्तिं पञ्चदशाब्दिकीम् ॥ यस्मिन् गृहेऽपि लिखितमेतत्तिष्ठति नित्यदा । सन्निधातं कृते श्राद्धे तत्रास्माकं भविष्यति ॥ तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः । श्रावणीयं महाभाग अस्माकं तुष्टिकारकम् ॥” इति मार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृस्तवे ॥ * मार्कण्डेय उवाच । “ततस्तस्मान्नदीमध्यात् समुत्तस्थौ मनोरमा । प्रम्लोचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥ सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ॥ प्रश्रयावनता सुभ्रूः प्रम्लोचा वै वराप्सराः ॥ अतीवरूपिणी कन्या मत्सुता तपतांवर । जाता वरुणपुत्त्रेण पुष्करेण महात्मना ॥ तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् । मनुर्म्महामतिस्तस्यां समुत्पस्यति ते सुतः ॥ मार्कण्डेय उवाच । तथति तेन चाप्युक्ता तस्मात्तोयाद्वपुष्मतीम् । उज्जहार ततः कभ्यां मालिनीं नाम नामतः ॥ नद्याश्च पुलिने तस्मिन् स मुनिर्मुनिसत्तम ! । जग्राह पाणिं विधिवत् समानाय्य महामुनीन् ॥ तस्यां तस्य सुतो जज्ञे महावीर्य्यो महामतिः । रौच्योऽभवत् पितुर्नाम्ना ख्यातोऽत्र वसुधातले ॥ तस्य मन्वन्तरे देवास्तथा सप्तर्षयश्च ये । तनयाश्च नृपाश्चैव ते सम्यक् कथितास्तव ॥ धर्म्मवृद्धिस्तथारोग्यं धनधान्यसुतोद्भवः । नृणां भवत्यसन्दिग्धमस्मिन् मन्वन्तरे श्रुते ॥ पितृस्तवं तथा श्रुत्वा पितॄणाञ्च तथा गणान् । सर्व्वान् कामानवाप्नोति तत्प्रसादान्नरो मुने ॥” इति मार्कण्डेयपुराणे रौच्येमन्वन्तरं समाप्तम् ॥ गारुडे ८९ । ९० अध्यायेऽप्येवमस्ति ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचि स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।3

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

रुचि स्त्री।

अत्यासक्तिः

समानार्थक:रुचि

3।3।29।2।1

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्.। प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः। परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

पदार्थ-विभागः : , गुणः, मानसिकभावः

रुचि स्त्री।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

3।3।29।2।1

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्.। प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः। परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

रुचि स्त्री।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

3।3।29।2।1

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्.। प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः। परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचि(ची)¦ स्त्री रुच--कि वा ङीप्।

१ अनुरागे

२ आसङ्गे

३ स्पृहायाम्

४ अभिलाषे

५ किरणे अमर।

६ शोभायांमेदि॰

७ बुभुक्षायां हेमच॰।

८ गोरोचनायां च राजनि॰।

९ प्रजापतिभेदे पु॰ मार्क॰ पु॰।

१० आलिङ्गतभेदे कामशास्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचि¦ f. (-चिः-ची)
1. Light, lustre.
2. Beauty, appearance, colour.
3. Passion.
4. Wish, desire.
5. A ray of light.
6. Intent application to any object or undertaking.
7. Hunger, appetite.
8. Taste, senti- ment. E. रुच् to shine, कि or ङीप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिः [ruciḥ], (-ची f.) [रुच्-कि वा ङीप्]

Light, lustre, splendour, brightness; वियद्व्यापी तारागणगुणित फेनोद्गमरुचिः Śi.vamahimna 17; रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः Śi. 16.71; R.5.67; Me.15.

A ray of light; as in रुचिभर्तृ q. v.

Appearance, colour, beauty (usually at the end of comp.); पटलं बहिर्बहलपङ्करुचि Śi.9.19; सिन्दूरैः कृतरुचयः सहेमकक्ष्याः Ki.7.8.

Taste, relish; as in रुचिकर.

Zest, hunger, appetite.

Wish, desire, pleasure; स्वरुच्या 'at will or pleasure.'

Liking, taste; विमार्गगायाश्च रुचिः स्वकान्ते Bv.1.125 'liking or love'; न स क्षितीशो रुचये बभूव; R.6.44; भिन्नरुचिर्हि लोकः 3; नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् M.1.4; oft. in comp. in the sense of 'indulging in', 'devoted or addicted to'; हिंसारुचेः Māl.5.29; अर्थरुचेः Mu.1.

Passion, close application to any object.

A kind of yellow pigment (गोरोचना).

A kind of coitus. -m. N. of a प्रजापति; जातो रुचेरजनयतसुयमान् सुयज्ञः Bhāg.2.7.2. -Comp. -करa.

tasteful, savoury, palatable.

exciting desire; रुचिकरमपि नार्थवद् बभूव Ki.1.62.

stomachic, tonic.-धामन् m. the sun. -प्रद a. appetizing. -फलम् a pear.-भर्तृ m.

the sun; रुचिभर्तुरस्य विरहाधिगमात् Śi.9.17.

a husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचि f. ( रुचिMaitrS. )light , lustre , splendour , beauty AV. etc.

रुचि f. colour Ka1v.

रुचि f. liking , taste , relish , pleasure , appetite , zest AV. etc. ( ifc. taking pleasure in , desirous of. longing for ; with loc. , प्रतिinf. or comp. ; रुचिं-दाor रुचये-भू, to please ; रुचिम् आ-वह्, with dat. , to excite a desire for ; रुच्याor स्व-रुच्या, at pleasure , at will)

रुचि f. a kind of coitus L.

रुचि f. a kind of pigment(= रोचना) L.

रुचि f. N. of an अप्सरस्MBh.

रुचि f. of the wife of देवशर्मन्ib.

रुचि m. N. of a प्रजा-पति(the husband of आकूतिand father of यज्ञor सु-यज्ञand of मनुरौच्य) Pur.

रुचि m. of a son of विश्वामित्रMBh.

रुचि m. of a king VP.

रुचि mfn. pleasant , agreeable(= रुचिर) R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--father of यज्ञ; a progenitor (प्रजापति- वा। प्।) a son of ब्रह्मा, married आकूती, a daughter of स्वा- yambhuva Manu and had a son, Hari-यज्ञ and a daughter दक्षिणा; फलकम्:F1:  भा. I. 3. १२; II. 7. 2; III. १२. ५६; २१. 5; IV. 1. 2-5; वा. 1. ६७. 3. 3; 9. १००; Vi. I. 7. १९, २०.फलकम्:/F father of Raucya; फलकम्:F2:  Br. IV. 1. ५०, १०१; M. 9. ३५.फलकम्:/F one of the five created to make one's taste intensified; through आकूती twins born, यज्ञ and दक्षिणा; they married and became parents of १२ sons called यामस्; फलकम्:F3:  Br. I. 1. ५८; II. 9. 1, 7, ४३.फलकम्:/F groups of celestials each of ३३; Divaspati is Indra; the seven sages are Nirmoha and others; would have a num- ber of sons. फलकम्:F4:  Vi. III. 2. ३७-41.फलकम्:/F
(II)--the father of Ajita devas. वा. ६७. ३३. [page३-088+ ४०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RUCI I : A celestial maid of Alakāpurī. This celestial maid danced in the Palace of Kubera on the occasion of the visit of Aṣṭāvakra. (M.B. Anuśāsana Parva, Chapter 19, Stanza 44).


_______________________________
*5th word in left half of page 654 (+offset) in original book.

RUCI II : A son of Brahmā and a Prajāpati. This prajā- pati married Ākūti the daughter of Manu Svāyambhuva. A son and a daughter were born to Ruci of Ākūti. The son was the incarnation of Viṣṇu. He was named Yajña. The daughter who was incarnation of Mahālakṣmī was named Dakṣiṇā. Yajña was brought up in the hermitage of Svāyambhuva and Dakṣiṇā grew up in the hermitage of Ruci. When they grew up Yajña married Dakṣiṇā. Twelve sons, named Toṣa, Santoṣa, Pratoṣa, Bhadra, Śānti, Iḍaspati, Idhma, Kavi, Vibhu, Vahni, Sudeva and Rocana, were born to the couple. In the time of Manu Svāyambhuva these twelve were called the Tuṣitas, a group of devas (gods).


_______________________________
*6th word in left half of page 654 (+offset) in original book.

RUCI III : The wife of the hermit named Devaśarmā. (For detailed story see under Vipula).


_______________________________
*7th word in left half of page 654 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रुचि&oldid=503874" इत्यस्माद् प्रतिप्राप्तम्