रुद्रवीणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्रवीणा, स्त्री, (रुद्रस्य वीणा ।) वीणाभेदः । यथा, -- “दण्डः स्याद्रुद्रवीणाया मुष्ट्येकादशसम्मितः । भ्रमदङ्गुष्ठाग्रमितं शुषिरं तस्य कीर्त्तितम् ॥ दण्डस्योभयतो ज्ञेयं कांस्यसंवरकद्वयम् । पश्चात् संवरकञ्चात्र छत्रीकृतशिरो भवेत् ॥ दण्डस्य वेष्टनं सार्द्धं पञ्चाङ्गुलमिवोदितम् । तन्मिता लखरी तस्याः कर्त्तव्या सुन्दराकृतिः ॥ ककुभो रुद्रवीणायास्त्रिशिराः परिकीर्त्तितः । ऊर्द्ध्वे शिरसि दातव्या लोहपत्री समन्विता ॥ मूलतन्त्री तदुपरि तस्या लौही ततः परम् । दक्षिणे शिरसि न्यस्येत् श्रुतितन्त्रीद्बयं क्रमात् ॥ एवन्तु ककुभं तत्र वीणादण्डे निवेशयेत् । द्ब्यङ्गुलोच्चमूर्द्ध्वशिरोऽङ्गुष्ठमात्रन्तु पार्श्वकम् ॥ सप्ताङ्गुलान्तरं तस्मात्तन्मूलञ्च निवेशयेत् । अन्यं ततश्चतुस्त्रिंशदङ्गुलान्तरमाक्षिपेत् ॥ अष्टादशाङ्गुलमुखं चक्र वै चारुगर्भकम् । दण्डं समुन्नतं कान्तं वर्त्तुलं तुम्बयुग्मकम् ॥ औन्नत्ये किञ्चिदाधिक्यमलयश्च प्रशस्यते । अर्द्धाङ्गुलान्तरं पश्चात्तुम्बरं स्थापयेद्बुधः ॥ दण्डपृष्ठ रन्ध्रमेकं स्थापयेच्च समन्ततः । लोहाङ्कुशन्तु कर्त्तव्यं वर्त्तुलं पङ्कजाकृति ॥ तद्बन्धनं गुणं तस्मिन् वेष्टबन्धे निवेशयेत् । एतत्परायां मोटिन्यां वेष्टरन्ध्राङ्कुशं क्षिपेत् ॥ तन्मोटनीवृत्तरन्ध्रसदृशं दण्डरन्ध्रकम् । सुयन्त्रिते तु तत्रैव बध्नीयान्मुख्यतन्त्रिकाम् ॥ तावच्च भ्रामयेत् पूर्ब्बां मोटनीञ्च शनैः शनैः । न यावदेति स्वस्थानं तन्त्री यन्त्रविशारदः ॥ अस्यास्त्वष्टादश प्रोक्ताः शारिकाः पूर्ब्बसूरिभिः । तासां बृहत्तरा अष्टौ दश क्षुद्राः प्रकीर्त्तिताः ॥ एतास्तु तारवादिन्यस्तिष्ठन्ति पदिकोपरि । वितस्तिमात्रपदिकाङ्गुष्ठोच्चाप्यस्य गर्भकः ॥ तावत् शून्यस्तु कर्त्तव्यो यथा दण्डे स्थिरो भवेत् । मदनस्य च सिक्थस्य योगेन सुदृढीकृता ॥ बृहतीनाञ्च शारीणां स्वननोऽयं तलक्रमात् । एतास्तु सर्व्वावयवैः कथितास्त्र्यङ्गुला बुधैः ॥ स्थाप्य दण्डस्य ताः पृष्ठे यथारागस्वरं पुनः । मदनस्य च सिक्थस्य योगेन सुदृढीकृताः ॥ सर्व्वासां लोहकलिका मस्तके स्युः सुयन्त्रिताः । एकाङ्गुलोच्चाः क्षुद्राः स्युरिति शारीविनिर्णयः ॥ एवं विनिर्म्मिता रुद्रवीणा जनमनोहरा । अस्यां शिक्षा तु कर्त्तव्या दाक्षिणात्योपदेशतः ॥” इति सङ्गीतनारायणः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्रवीणा/ रुद्र--वीणा f. a kind of lute Sam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=रुद्रवीणा&oldid=220319" इत्यस्माद् प्रतिप्राप्तम्