रुधिरम्
सम्स्कृतम्
[सम्पाद्यताम्]नामः
[सम्पाद्यताम्]अनुवादाः
[सम्पाद्यताम्][[en: [[ml:
- आम्गलम्-blood
- मलयालम्-രക്തം ചോര ഉതിരം
- हिन्दि-रक्त्
- बङ्गाळि-() ()
- फ़्रॆन्च्- (fr)
- रूसीय्- (ru) ()
- जेर्मन्-
- स्पानिष्- (es)
- तेलुगु-
- तमिल्- [[
- पोलिष्-, (pl)
[[ca: [[de: [[es: [[et: [[eu: [[fr: [[hi: [[hr: [[hu: [[li: [[lt: [[mg: [[ml: [[ne: [[nl: [[no: [[pt: [[ru: [[ta: [[tr:
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रुधिरम्, क्ली, (रुणद्धि रुध्यते इति वा । रुध + “इषिमदिमुदीति ।” उणा० १ । ५२ । इति किरच् ।) शरीरस्थरसभवधातुः । तत्पर्य्यायः । रक्तम् २ अस्रम् ३ त्वग्जम् ४ कीलालम् ५ क्षतजम् ६ शोणितम् ७ लोहितम् ८ असृक् ९ शोणम् १० लोहम् ११ चर्म्मजम् १२ । इति राजनिर्घण्टः ॥ (यथा, -- “तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा । युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्त्तते ॥” “वलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा । रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा ॥” इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये ॥ “चतुर्व्विधं यदेतद्धि रुधिरस्य निवारणम् । सन्धानं स्कन्दनञ्चैव पाचनं दहनन्तथा ॥ वणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् । तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् शिराः ॥ अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् । सन्धाने स्रस्यमाने तु पाचनैः समुपाचरेत् ॥ कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि । असिद्धिमत्सु चैतेषु दाहः परम इष्यते ॥ सशेयदोषे रुधिरे न व्याधिरतिवर्त्तते । सावशेवे ततः स्थेयं न तु कुर्य्यादतिक्रमम् ॥ देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते । तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥” इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥ रुधिरस्रावेऽनध्ययनमुक्तं यथा, मनौ । ४ । १२२ । “रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥”) कुङ्कुमम् । इत्यमरः ॥ (यथा, रघुः । ११ । २० । “राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥”)