रेखा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेखा, स्त्री, (लिख्यते इति । लिख विलेखने + “षिद्भिदादिभ्योऽड् ।” ३ । ३ । १०४ । इति भिदादित्वात् अङ् । टाप् । रलयोरैक्यात् लस्य रत्वम् ।) अल्पकम् । छद्म । आभोगः । उल्लेखः । इति विश्वः ॥ उल्लेखस्त्वत्र दण्डाकार- लिपिविशेषः । दा~डी इति कसी इति च भाषा । यथा, -- “यावती यावती रेखा ग्रहाणामष्टवर्गके । तावतीं द्बिगुणीकृत्य अष्टाभिः परिशोधयेत् ॥ अष्टोपरि भवेद्रेखा अष्टाभ्यन्तरबिन्दवः । यत्र रेखा न बिन्दुश्च तत् समं परिकीर्त्तितम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ शरीरस्थरेखया शुभाशुभलक्षणं यथा, -- “ललाटे यस्य दृश्यन्ते तिस्रो रेखाः समा हि ताः । सुखी पुत्त्रसमायुक्तः स षष्टिं जीवते नरः ॥ चत्वारिंशच्च वर्षाणि द्बिरेखादर्शनान्नरः । विंशत्यब्दमेकरेख आकर्णान्ताः शतायुषः ॥ आकर्णान्तरिता रेखास्तिस्रश्च स्युः शतायुषः । सप्तत्या मूर्द्ध्नि रेखा तु षष्ट्यायुस्तिसृभिर्भवेत् ॥ व्यक्ताव्यक्ताभी रेखाभिर्विंशत्यब्दायुरेव हि । चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति ॥ भिन्नाभिश्चैव रेस्वाभिरपमृत्युर्नरस्य हि ॥ त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते । धनपुत्त्रसमायुक्तः स जीवेत् शरदः शतम् ॥ तर्जत्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः । सम्प्राप्ता या भवेद्रुद्र स जीवेत् शरदः शतम् ॥ कुलरेखा तु प्रथमा अङ्गुष्ठादनुवर्त्तते । मध्यमायाः करे रेखा आयूरेखा अतः परम् ॥ कनिष्ठिकां समाश्रित्य आयूरेखां समादिशेत् । अच्छिन्ना वाविभक्ता वा स जीवेच्छरदः शतम् ॥ यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत् । शतं वर्षाणि जीवेच्च भोगी रुद्र ! न संशयः ॥ कनिष्ठिकां समाश्रित्य मध्यमायामुपागता । षष्टिं वर्षायुषं कुर्य्यात् आयूरेखा तु मानवम् ॥” इति गारुडे ६३ अध्यायः ॥ * ॥ अपिच । “घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै । नृपतेः करतलगा मणिबन्धे समुत्थिता ॥ युगमीनाङ्कितकरो भवेत् सत्रप्रदो नरः । वज्राकारश्च धनिनां मत्स्यपुच्छनिभो बुधे ॥ शङ्खातपत्रशिविकागजपद्मोपमा नृपे । कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे ॥ दामाभाश्च गजाढ्यानां स्वस्तिकाभा नृपेश्वरे । चक्रासितोमरधनुःकुन्ताभा नृपतेः करे ॥ उदूखलाभा यज्ञाढ्ये वेदीभाश्चाग्निहोत्रिणि । वापीदेवकुलाभाश्च त्रिकोणाभाश्च धार्म्मिके ॥ अङ्गुष्ठमूलगा रेखाः पुत्त्राः सूक्ष्माश्च कारिकाः । प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी ॥ शतायुषञ्च कुरुते छिन्नया तरुतो भयम् । निःस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः ॥” इति गारुडे ६६ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेखा¦ स्त्री लिख--अच् लस्यरः।

१ अल्पे,

२ छले,

३ आभोगे,[Page4812-b+ 38] विन्दुपुञ्जकृते दण्डाकारे

४ चिह्नमेदे (दाडि) (कसा)विश्वः।

५ सुमेरुलङ्कयोर्मध्यस्थसूत्रगस्थलभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेखा¦ f. (-खा)
1. A line, a continuous line.
2. Deceit, fraud.
3. A little.
4. Fulness, satisfaction.
5. A small portion, a jot.
6. Drawing, delineating.
7. The prime meridian drawn from Ceylon to Me4ru through Ujjayini. E. See लेखा, the initial being changed to र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेखा [rēkhā], [लिख्-अच् लस्य]

A line, streak; मदरेखा, दानरेखा, रागरेखा &c.

The measure of a line, small portion, as much as a line; न रेखामात्रमपि व्यतीयुः R.1.17.

A row, range, line, series; मुदाश्रु मोक्ष्यसे क्षिप्रं मेघरेखेव वार्षिकी Rām.2.44.27.

Delineation, sketch, drawing; लावण्यरेखया किंचिदन्वितम् Ś.6.13.

The first or prime meridian of the Indian astronomers drawn from Laṅkā to Meru and passing through Ujjayinī.

Fulness, satisfaction.

Deceit, fraud.

A straight position of all limbs in dancing. -Comp. -अंशः a degree of longitude. -अन्तरम् distance east or west from the first meridian, longitude of a place. -आकार a. lineal, formed in lines, striped. -गणितम् geometry. -न्यासः the marking down of lines. -मात्रम् ind. even by a line.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेखा f. See. below.

रेखा f. a scratch , streak , stripe , line Gr2ihya1s. Ya1jn5. MBh. etc.

रेखा f. a continuous line , row , range , series MBh. Ka1v. etc.

रेखा f. the first or prime meridian (considered to be a line drawn from लङ्काto मेरुi.e. from Ceylon [supposed to lie on the equator] to the north pole) Su1ryas.

रेखा f. a right or straight position of all the limbs in dancing Sam2gi1t.

रेखा f. delineation , outline , drawing , sketch Ka1v. Katha1s.

रेखा f. appearance( रेखयाifc. under the -appappearance of Ba1lar. ; रेखां न-लभ्, not to attain even to the -appappearance of , not to be at all equal to Vcar. )

रेखा f. deceit , fraud(= छद्मन्) L.

रेखा f. fulness , satisfaction(= आभोग) L.

रेखा f. a small quantity , little portion L. (See. -मात्रम्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति. Br. IV. ३६. ७६.

"https://sa.wiktionary.org/w/index.php?title=रेखा&oldid=503904" इत्यस्माद् प्रतिप्राप्तम्