रोगी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोगी, [न्] त्रि, (रोगोऽस्यास्तीति । रोग + इनिः ।) रोगयुक्तः । तत्पर्य्यायः । व्याधितः २ विकृतः ३ ग्लानः ४ म्लानः ५ मन्दः ६ आतुरः ७ अभ्यान्तः ८ अभ्यमितः ९ रुग्नः १० सामयः ११ अपटुः १२ । इति राजनिर्घण्टः ॥ आम- यावी १३ ग्लास्नुः १४ । इत्यमरः ॥ * ॥ अथ चिकित्सार्थं रोगिणः परीक्षा । तत्र वाग्- भटः । “दर्शनस्पर्शनप्रश्नैः परीक्षेदथ रोगिणम् । आयुरादि दृशा स्पर्शाच्छीतादेः प्रश्नतोऽप- रम् ॥” आयुरादि । आदिशब्दात् साध्यत्वासाध्य- त्वादि । दृशा दर्शनेन । अत्र सम्पदादिभ्य- श्चेति भावे क्विप् । स्पर्शात् शीतादेः । शीतोष्ण- मृदुकठिनत्वादिना परीक्षणञ्च । प्रश्नतः । उदरलाघवगौरवतृषाबुभुक्षाबलाबलादिना ॥ “मिथ्या दृष्टा विकारा हि दुराख्यातास्तथैव च । तथा दुष्परिपृष्टाश्च मोहयेयुश्चिकित्सकान् ॥” तत्र दर्शनं नेत्रजिह्वामूत्रादेः कर्त्तव्यम् ॥ * ॥ तत्र नेत्रपरीक्षा यथा, -- “नेत्रं स्यात् पवनाद्रूक्षं धूम्रवर्णं तथारुणम् । कोटरान्तःप्रविष्टञ्च तथास्तञ्च विलोकनम् ॥ हरिद्राखण्डवर्णञ्च रक्तंवा हरितं तथा । दीपद्वेषि सदाहञ्च नेत्रं स्यात् पित्तकोपतः ॥ चक्षुर्व्वलाशबाहुल्यात् स्निग्धं स्यात् सलिल- प्लुतम् । तथा धवलवर्णञ्च ज्योतिर्हीनं बलान्वितम् ॥ नेत्रं द्बिदोषबाहुल्यात् स्याद्दोषद्वयलक्षणम् । त्रिदोषलिङ्कं सेवेत तन्मारयति रोगिणम् ॥ त्रिदोषदूषित नेत्रमन्तर्म्मग्नं भृशं भवेत् । त्रिलिङ्गं सलिलस्रावि प्रान्तेनोन्मीलयत्यपि ॥” * अथ जिह्वापरीक्षा । “शाकपत्रप्रभा रूक्षा स्फुटिता रसनानिलात् । रक्ता श्यामा भवेत् पित्ताल्लिप्तार्द्रा धवला कफात् । परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके । सैव दोषद्वयाधिक्ये दोषद्बितयलक्षणा ॥” अथ मूत्रपरीक्षा । “वातेन पाण्डुरं मूत्रं रक्तं नीलञ्च पित्ततः । रक्तमेव भवेद्रक्ताद्धवलं फेनिलं कफात् ॥” अथ शरीरस्य उष्णत्वादिज्ञानार्थं स्पर्शनं कार्य्यम् । तत्र नाडीपरीक्षामाह । “पुंसो दक्षिणहस्तस्य स्त्रियो वामकरस्य तु । अङ्गुष्ठमूलगा नाडी परीक्ष्येत भिषग्वरैः ॥ कारी । भीरुर्भयशीलः । कृतघ्नो वैद्यकृतोप- कारलोपकः । व्यग्रो व्याकुलः । विहीनः कर- णैश्च यः निजेन्द्रियशक्तिरहितः । वैरी न चिकित्स्यः कदाचिद्रोगोद्रेके अपवादभयात् । वैद्यविदग्धो वैद्यधूर्त्तः । तथा च सुश्रुतः । “स न सिद्ध्यति वैद्यस्तु गृहे यस्य न पूज्यते ।” शङ्कितो वैद्यविश्वासरहितः । भिषजामविधेयाः ॥ वैद्यवचनाविधायिनः । भिषग्विधा वैद्यतुल्याः । एते नोपक्रम्याः न चिकित्स्याः । अथ दूतस्य लक्षणम् । “यश्चिकित्सकमानेतुं याति दूतः स कथ्यते । स च यादृक् समुचितस्तादृगत्र निगद्यते ॥ दूताः सुजातयोऽव्यङ्गाः पटवो निर्म्मलाम्बराः । सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः ॥ सजातयः सुचेष्टाश्च सजीवदिशिसङ्गताः । भिषजं समये प्राप्ता रोगिणः सुखहेतवे ॥” सजातयः रोगिसमानजातयः । “यस्यां प्राणमरुद्बाति सा नाडी जीव- संज्ञिता ॥” अथ दूतस्य यात्रायां शकुनविचारः । “वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते । न शुभं सौम्य शकुनं प्रदीप्तन्तु सुखावहम् ॥” प्रदीप्तमग्निं दूतो रोगी रिक्तहस्तो वैद्यं न पश्येत् । तथा च । “रिक्तहस्तो न पश्येत्तु राजानं भिषर्जगुरुम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=रोगी&oldid=503915" इत्यस्माद् प्रतिप्राप्तम्