रोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचनः, पुं, (रोचयतीति । रोचि + नन्द्यादित्वात् ल्युः ।) कूटशाल्मलिः । इत्यमरः ॥ (तस्य पर्य्यायो यथा, -- “कुत्सितः शाल्मलिः प्रोक्तो रोचनः कूट- शाल्मलिः ॥” इति भावप्रकाशे । १ । १ ॥ काम्पिल्लः । तत्पर्य्यायो यथा, -- “काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) श्वेतशिग्रुः । पलाण्डुः । आरग्वधः । करञ्जः । अङ्कोठः । दाडिमः । इति राजनिर्घण्टः ॥ (देवयोनिविशेषः । यथा, हरिवंशे । १६६ । ७५ । “कुम्भाण्डः कुम्भमूर्द्धा च रोचनो वैकृतोग्रहः ॥” दक्षिणापुत्त्राणामन्यतमः । स च स्वायम्भुवमन्व- न्तरे देवविशेषः । इति भागवतम् । ४ । १ । ७ ॥ स्वारोचिषमन्वन्तरे इन्द्रः । इति च तत्रैव । ८ । १ । २० ॥ भारतवर्षान्तर्गतपर्व्वतविशेषः । यथा, मार्कण्डेये । ५७ । १३ । “तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचलः ॥”) त्रि, रोचकः । इति मेदिनी । ने, ११६ ॥ (यथा, सुश्रुते । १ । ४६ । शाकवर्गे । “वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् ॥” दीप्तिशाली । यथा, हरिवंशे । १२९ । ३५ । “अन्तश्चरं रोचनं चारुशाखं महाबलं धर्म्मनेतारमीड्यम् । सहस्रनेत्रं शतवर्म्माणमुग्रं महादेवं विश्वसृजं नमस्ये ॥” शोभमानः । यथा, भट्टिः । ६ । ७३ । “भृङ्गालिकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण । रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम् ॥” अनुरागकरः । यथा, भागवते । १ । १० । ११ । “सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचन पुं।

कृष्णशाल्मलिः

समानार्थक:रोचन,कूटशाल्मलि

2।4।47।1।3

पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः। चिरबिल्वो नक्तमालः करजश्च करञ्जके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचन¦ पु॰{??}--ल्यु रोचयति वा ल्यु।

१ कूटशाल्मलिवृक्षे[Page4814-b+ 38]

२ श्वेतशोभाञ्जते,

३ पलाण्डौ

४ दाडिमे च राजनि॰

५ क-रञ्जे,

६ अङ्कोठे,

७ आरग्बधे च मेदि॰

८ उत्तमायां नार्य्यां

९ रक्तकह्लारे स्त्री मेदि॰ टाप्।

११ रुचिकारवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचन¦ mfn. (-नः-ना or -नी-नं)
1. Splendid, beautiful.
2. Irradiating, illumining, beautifying.
3. Gratifying, pleasing.
4. Whetting, sharpening, (the appetite.) m. (-नः)
1. A species of the silk-cotton tree.
2. The onion.
3. A tree, (Andersonia Rohitaka.)
4. The Cassia fistula.
5. The pomegranate.
6. The citron.
7. A stomachic, a carminative. f. (-नी)
1. A yellow pigment, commonly Gorochana4 and supposed to be the concrete bile of the cow; or according to some authorities, to be found in the head of the animal, used as a medicine, a dye and perfume.
2. The manna of bamboos.
3. An excellent woman.
4. A red lotus. f. (-ना-नी)
1. A plant, commonly Gun4da4ro4chani4, a sort of Crimum. f. (-नी)
1. A variety of Te4o4ri4, (Convolvulus turpethum.)
2. Red arsenic. fn. (-ना-नं) The bright sky, the firmament. E. रुच् to shine, ल्युट् or युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचन [rōcana], a. (-ना or -नी f.) [रुच्-ल्यु रोचयति वा ल्यु Uṇ 2.74]

Enlightening; illuminating, irradiating.

Bright, splendid, beautiful. lovely, pleasing, agreeable; कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् Bhāg.1.1.11; रोचनै- र्भूषितां पम्पामस्माकं हृदयाविधम् Bk.6.73.

Stomachic.

नः A stomachic.

N. of one of the five arrows of Cupid.

N. of several plants: पलाण्डु, आरग्वध, दाडिम, करञ्ज, अङ्कोष्ठ &c.

नम् Raising a desire for; नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः Bhāg.11.3.46.

The bright sky, firmament. -Comp. -फलः the citron tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचन mf( ईor आ)n. bright , shining , radiant AV. Br. Gr2S. MBh. Hariv.

रोचन mf( ईor आ)n. giving pleasure or satisfaction , pleasant , charming , lovely Bhat2t2. BhP.

रोचन mf( ईor आ)n. sharpening or stimulating the appetite , stomachic Sus3r.

रोचन m. N. of various plants (Andersonia Rohitika ; Alangium Hexapetalum ; the pomegranate tree etc. ) L.

रोचन m. a partic. yellow pigment( v.l. for रोचना) MBh. ( C. )

रोचन m. a stomachic W.

रोचन m. N. of a demon presiding over a partic. disease Hariv.

रोचन m. of one of the 5 arrows of the god of love (" exciter ") Cat.

रोचन m. of a son of विष्णुby दक्षिणाBhP.

रोचन m. of इन्द्रunder मनुस्वारोचिषib.

रोचन m. of one of the विश्वेदेवाःVP.

रोचन m. of a mountain Ma1rkP.

रोचन f( आ) and ( ई). See. below

रोचन n. light , brightness , ( esp. ) the bright sky , firmament , luminous sphere (of which there are said to be three ; See. under रजस्) RV. AV. Br. (in this sense sometimes f( आ). )

रोचन n. pl. lights , stars AV.

रोचन n. ( ifc. )the causing a desire for BhP.

रोचन n. ( रुचि-रुचे र्)N. of a सामन्A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of दक्षिणा and a तुषित god. भा. IV. 1. 7-8.
(II)--the name of Indra of the स्वारोचिष epoch. भा. VIII. 1. २०.
(III)--a son of Vasudeva. Br. III. ७१. १८२.
(IV)--a son of उपदेवा. वा. ९६. १७९.
"https://sa.wiktionary.org/w/index.php?title=रोचन&oldid=436353" इत्यस्माद् प्रतिप्राप्तम्