रोटिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोटिका, स्त्री, पिष्टकविशेषः । रोटी इति रुटी इति च भाषा । तत्करणप्रकारमाह । “शुष्कगोधूमचूर्णेन किञ्चित् पुष्टाञ्च पोलिकाम् । तप्तके स्वेदयेत् कृत्वा भूयोऽङ्गारेऽपि तां पचेत् ॥ सिद्धैषा रोटिका प्रोक्ता गुणानस्याः प्रचक्ष्महे । रोटिका बलकृद्रुच्या बृंहणी धातुवर्द्धनी ॥ वातघ्नी कफकृद्गुर्व्वी दीप्ताग्नीनां प्रपूजिता ॥” अथ लेटी । “मुद्गगोधूमचूर्णन्तु साम्बुगाढं विमर्द्दयेत् । विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत् ॥ अङ्गारकर्कटी ह्येषा बृंहणी शुक्रला लघुः । दीपनी कफहृद्बल्या पीनसश्वासकासजित् ॥” अथ यवरोटिका । “यवजा रोटिका रुव्या मधुरा विषदा लघुः । मलशुक्रानिलकरी बल्या हन्ति कफामयान् । पीनसश्वासकासांश्च मेदोमेहगलामयान् ॥” अथ माषरोटिका । “चूर्णं यच्छुष्कमाषाणां चमसी साभिधीयते । चमसीरचिता रोटी कथ्यते बलभद्रिका ॥ रूक्षोष्णा वातला बल्या दीप्ताग्नीनां प्रपूजिता । माषाणां दालयस्तोये स्थापितास्त्यक्तकञ्चुकाः ॥ आतपे शोषिता यन्त्रे पिष्टास्ता धूमसी स्मृता । धूमसीरचिता सैव प्रोक्ता झर्झरिका बुधैः ॥” झर्झरिकास्थाने भुर्भुरिका इति गुर्गुरिका इति वा पाठः । “झर्झरी कफपित्तघ्नी किञ्चिद्बातकरी स्मृता ॥” अथ चणकरोटिका । “चाणक्या रोटिका रूक्षा श्लेष्मपित्तास्रनुद्गुरुः । विष्टम्भिनी न चक्षुष्या तद्गुणा तिलशष्कुली ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोटिका¦ स्त्री रुट--ण्वुल्। गोधूमादिचूर्णनिर्मिते पिष्टकभेदे(रुटी) भावप्र॰ कृतान्नशब्दे

२१

८१ पृ॰ दृशाम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोटिका [rōṭikā] रोटी [rōṭī], रोटी Bread.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोटिका f. bread or a kind of bread , wheaten cakes toasted on an earthen or iron dish Bhpr. (See. next).

"https://sa.wiktionary.org/w/index.php?title=रोटिका&oldid=222572" इत्यस्माद् प्रतिप्राप्तम्