रोदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदनम्, क्ली, (रुद् + ल्युट् ।) क्रन्दनम् । (यथा, चाणक्यशतके । ६२ । “दुर्ब्बलस्य बलं राजा बालानां रोदनं बलम् । बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥”) अस्रु । इति मेदिनी । ने, ११९ ॥ तस्य शुभाशुभं यथा, -- “अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम् । प्रचुराश्रु दीनं रूक्षञ्च रुदितं न सुखावहम् ॥” इति गारुडे ६६ अध्यायः ॥ कपिलाधेनूनां नेत्राम्बुना रत्नसमूहो जातः । यथा, -- “युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः ॥” इत्युपक्रम्य । “तदश्रुबिन्दुना मर्त्ये रत्नसंघो बभूव ह ॥” रोदनाश्रुपतनेन मृतानां नरकं स्यात् । यथा, -- “ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्त्र साम्प्र- तम् । रोदनाश्रुप्रपतनान्मृतानां नरकं ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे २७ अध्यायः ॥ मृतमुद्दिश्य रोदननिषेधो यथा, -- “श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्य्या विधानतः ॥” इति शुद्धितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदन नपुं।

अश्रुः

समानार्थक:अस्रु,नेत्राम्बु,रोदन,अस्र,अश्रु,बाष्प

2।6।93।2।5

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

सम्बन्धि1 : नेत्रम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदन¦ न॰ रुद--ल्युट्।

१ क्रन्दने

२ अश्रुणि मेदि॰। करणेल्युट् ङीप्।

३ दुरालभायाम् अमरः। संज्ञायां कन्अत इत्त्वम्। रोदनिका

४ यवासायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदन¦ n. (-नं)
1. Weeping, crying.
2. A tear, tears. f. (-नी) A plant, (Hedysarum alhagi.) E. रुद् to weep, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदनम् [rōdanam], [रुद्-ल्युट्]

Weeping; see रुदन.

A tear or tears.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदन n. id. A1past. R. Sus3r. etc. (in S3a1rn3gS. reckoned among the diseases of children)

रोदन n. a tear , tears L.

"https://sa.wiktionary.org/w/index.php?title=रोदन&oldid=503922" इत्यस्माद् प्रतिप्राप्तम्