रोपण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपणम्, क्ली, विमोहनम् । रुपधातोर्भावेऽनट्प्रत्य- येन निष्पन्नम् ॥ जननम् । प्रादुर्भावः । ञ्यन्त- रुहधातोः पङादेशे अनट्प्रत्ययेन निष्पन्नम् । इति व्याकरणम् ॥ (यथा, सुश्रुते । १ । १५ । “सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्य्यकृत्श्लेष्मा पञ्चधा प्रविभक्त उदकर्म्मानुग्रहं करोति ॥”) अञ्जनविशेषः । यथा, -- “रोपणं रसकं पिष्ट्वा सम्यक् संप्लाव्य वारिणा । गृह्णीयात्तज्जलं सर्व्वं त्यजेच्चूर्णमधोगतम् ॥ शुष्कञ्च तज्जलं सर्व्वं पर्पटीसन्निभं भवेत् । विचूर्ण्य भावयेत् सम्यक् त्रिवेलं त्रिफलारसैः ॥ कर्पूरस्य रसन्तत्र दशमांशेन निक्षिपेत् । अञ्जयेन्नयने तेन नेत्राखिलगदच्छिदः ॥” इति भावप्रकाशः ॥ (त्रि, रोपकः । यथा, सुश्रुते । ६ । १८ । “लेखनात् त्रिगुणो धार्य्यः पुटपाकस्तु रोपणः ॥” व्रणरोगे मांसाङ्कुरजननार्थप्रक्रियादिकम् । तद्- यथा, -- “आदौ विम्लापनं कुर्य्याद्द्वितीयमवसेचनम् । तृतीयमुपनाहञ्च चतुर्थीं पटलक्रियाम् ॥ पञ्चमं शोधनञ्चैव षष्ठं रोपणमिष्यते । एते क्रमा व्रणस्योक्ताः सप्तमो वै कृतापहः ॥ निम्बपत्रतिलैः कल्को मधुना क्षतशोधनः । रोपणः सर्पिषा युक्तो यवकल्केऽप्ययं विधिः ॥” इति वैद्यकचक्रपाणिसंग्रहे व्रणशोथाधिकारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपण¦ न॰ रुह--णिच्--हस्य पः ल्युट्।

१ जनने

२ अञ्जन-भेदे रुप--ल्युट्।

३ विमोहने

४ अन्यथाभूतस्य वस्तुनी-ऽन्यथा ज्ञाने। अञ्जनभेदप्रकारादि भावप्र॰ उक्त यथा
“शिलायां रसकं पिद्वा सम्यक् संप्लाव्य वारिणा। मृह्णी-यात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम्। शुष्कञ्च तज्जलंसर्वं पर्पटीसन्निभं भवेत्। विचूर्ण्य भावयेत् सम्यक्त्रिवेलं त्रिफलारसैः। कर्पूरस्य रसं तत्र दशमांसेननिक्षिपेत्। अञ्जयेन्नयने तेन नेत्राखिलगदच्छिदः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपण¦ n. (-णं)
1. Placing in or upon.
2. Planting.
3. Raising.
4. A dis- turbing or bewildering of the mind, a confusing or confusion of ideas.
5. Cicatrizing, healing.
6. A healing application to sores or wounds.
7. A kind of collyrium. m. (-णः) Quicksilver. E. रुह् to ascend, causal v., or रुप् to bewilder, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपणम् [rōpaṇam], [रुह् णिच् हस्य पः ल्युट्]

The act of erecting, setting up or raising.

Planting.

Healing.

A healing application (used for sores). -णः An arrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपण etc. See. p. 889 , col. 2.

रोपण mfn. causing bodily pain AV.

रोपण n. = विमोहनor उपद्रवTBr. Sch.

रोपण mf( ई)n. causing to grow , causing to grow over or cicatrize , healing Sus3r.

रोपण mf( ई)n. putting on Katha1s.

रोपण m. an arrow L.

रोपण n. the act of setting up or erecting , raising Kr2ishis.

रोपण n. the act of planting , setting , sowing , transplanting Pan5cat. Kr2ishis.

रोपण n. healing or a healing application (used for sores) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=रोपण&oldid=222762" इत्यस्माद् प्रतिप्राप्तम्