रौरव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौरवः, पुं, (रुरुर्ज्जन्तुविशेषस्तस्यायमिति । रुरु + अण् ।) नरकविशेषः । घोरः । इति मेदिनी । वे, ४९ ॥ आद्यस्य विवरणं यथा, -- “रौरवे कूटसाक्षी तु याति यश्चानृती नरः । तस्य स्वरूपं वदतो रौरवस्य निशामय ॥ योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः । जानुमात्रप्रमाणन्तु तत्र श्वभ्रं सुदुस्तरम् ॥ तत्राङ्गारचयो येन कृतं तद्धरणीसमम् । जाज्वल्यतातितीव्रेण तापिताम्बरभूमिना ॥ तन्मध्ये पापकर्म्माणं विमुञ्चन्ति यमानुगाः । स दह्यमानस्तीव्रेण वह्निना तेन धावति ॥ पदे पदे च पादोऽस्य शीर्य्यते जायते पुनः । अहोरात्रेणोद्धरणं पादन्यासं स गच्छति । एवं सहस्रं विस्तीर्णे योजनानां विमुच्यते ॥” इति मार्कण्डेयपुराणे पितापुत्त्रसंवादनामा- ध्यायः ॥ (तथाच देवीभागवते । ८ । २२ । ८-११ । “एतन्ममाहमिति यो भूतद्रोहेण केवलम् । पुष्णाति प्रत्यहं स्वीयकुटुम्बं कार्य्यलम्पटः ॥ एतद्विहाय चात्रैव स्वाशुभेन पतेदिह । रौरवे नाम नरके सर्व्वसत्त्वभयावहे ॥ इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा । त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ॥ तस्माद्रौरवमित्याहुः पुराणज्ञा मनिषिणः । रुरुः सर्पादपि क्रूरो जन्तुरुक्तः पुरातनैः ॥”)

रौरवः, त्रि, चञ्चलः । धर्त्तः घोरः । इति शब्द- रत्नावली ॥ (रुरोर्मृगस्येदमिति । अण् । मृग- सम्बन्धिनि च । यथा, मनुः । २ । ४१ । “कार्ष्णरौरववास्तानि चर्म्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्व्वेण शाणक्षौमाविकानि च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौरव पुं।

नरकभेदः

समानार्थक:तपन,अवीचि,महारौरव,रौरव,सङ्घात,कालसूत्र

1।9।1।2।4

स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्. तद्भेदास्तपनावीचिमहारौरवरौरवाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौरव¦ पु॰ रोरूयतेऽत्र रु--यङ् क्विप् तेन प्राप्यः तस्मायं वाअण्।

१ नरकभेदे अमरः।

२ चञ्चले,

३ धूर्त्ते,

४ क्षोरेच त्रि॰ शब्दर॰।

५ सामभेदे न॰। तच्च साम अहगाने[Page4817-a+ 33]

३ प्र॰ दर्शितम्।
“रौरवयौधाजये वार्हते तृचे भवतः” ता॰ ब्रा॰। रौरवनरकस्वरूपादिकमुक्तं मार्कपु॰

१० अ॰
“रौरवे कूटसाक्षी तु याति यूतानृतो नरः। तस्य स्व-रूपं गदतो रौरवस्य निशामप। योजनानां सहस्वे द्वेरौरवो हि प्रमाणतः। जानुमात्रप्रमाणश्च ततः श्वभ्रःसुदुस्तरः। तत्राङ्गारचयोपेतं कृतञ्च धरणीतलम्। जाज्वल्यमानन्तीव्रेण तापिताङ्गारभूमिगम्। तन्मध्येपापकर्माणं विमुञ्चन्ति यमानुमाः। स दह्यमानस्तीव्रेणवह्निना तत्र धावति। वदे पदे च पादोऽस्य शीर्य्यतेजीर्यते पुनः। अहोरात्रेणोद्धरणं पादग्यासं च गच्छति। एवं सहस्रं विस्तीर्णे योजनानां विपच्यते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौरव¦ mfn. (-वः-वी-वं)
1. Formidable, horrible, terrific.
2. Dishonest, fraudulent.
3. Unsteady, slipping. m. (-वः)
1. One of the divisions of Naraka or Tartarus.
2. A savage, a monster. E. रुद् to weep, deriv. irr.; or रुरु said to mean a living being, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौरव [raurava], a. (-वी f.)

Made of the hide of Ruru; त्वचं स मेध्यां परिधाय रौरवीम् R.3.31.

Dreadful, terrible.ल

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौरव mf( ई)n. (fr. रुरु)coming from or made of the skin of the deer called रुरुGr2S3rS. MBh. etc.

रौरव mf( ई)n. fearful L.

रौरव mf( ई)n. unsteady , dishonest L.

रौरव m. N. of one of the hells Mn. MBh. etc. (personified as husband of वेदनाand father of दुःखMa1rkP. ; with Buddhists , one of the 8 hot hells Dharmas. 121 )

रौरव m. N. of the fifth कल्प(See. )

रौरव m. a savage , monster W.

रौरव n. the fruit of the रुरुtree g. प्लक्षा-दि

रौरव n. N. of various सामन्s A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the २८ hells ever burning and under the earth; he who is self-centred and accumulates wealth at the cost of others suffers here; especially from animals, called Rurus (s.v) more cruel than serpents. फलकम्:F1:  भा. III. ३०. २८; V. २६. 7-११.फलकम्:/F False witnesses, men who are partial and speak untruth, people guilty of infanticide and of incendiarism go to this; also महारौरव; फलकम्:F2:  Br. I. 1. १४१; IV. 2. १४६, १५१-3, १८०; 7. ७६; ३३. ६०; Vi. I. 6. ४१; II. 6. 2, 7.फलकम्:/F those who perform rituals with joy and wrath also go here; below this is the तप। फलकम्:F3:  Br. II. 9. ६५; वा. १०१. १४६, १५१-2, १७७, १८०, २०५; ११०. ४२.फलकम्:/F [page३-108+ २४]
(II)--the flesh of the Ruru antelope for श्राद्ध. M. १७. ३४.
(III)--the fifth kalpa. M. २९०. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAURAVA : One of the twentyeight hells. For details see the part Naraka under the word Kāla.


_______________________________
*4th word in right half of page 645 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रौरव&oldid=436394" इत्यस्माद् प्रतिप्राप्तम्