लक्षकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लक्षकम्, क्ली, (लक्षयतीति । लक्ष + ण्वुल् ।) लक्षयति यत् । यथा । लक्षकं नाम लक्षयति । “यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत् । तत्र तल्लक्षकं नाम तच्छक्तिविधुरं यदि ॥” यादृशार्थसम्बन्धवति यन्नाम सङ्केतितं तदेव तादृशार्थे लक्षकं यदि तादृशार्थे शक्तिशून्यं भवेत् । सैन्धवादयस्तु शब्दाः तुरगादिसम्ब- न्धिनि लवणादाविव तुरगादावपि शक्ता एव । गङ्गादयस्तु तीरादावसङ्केतिताः तत्सम्बन्धि- बीरादिशक्तत्वेन गृहीता एव तीराद्यन्वयं बोध- यन्ति तत्र लक्षका एव । अपि च । तदेवं विधलक्षणावत्त्वाल्लक्षकं नामापि जहत्- स्वार्थादिभेदादनेकविधमित्यर्थः स्यादेतद्यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरा- द्यनुभवे भवेद्धेतुस्तदोक्तक्रमेण लक्षकाणां विभागो न त्वेतदस्ति । तीराद्यन्वयबोधं प्रति तीरादिशक्तत्वेनैव पदज्ञानस्य लाघवेन हेतु- तया लक्षकाणामननुभावकत्वात् गुरूणामग्नौ शैत्यं स्पृशेदित्यादौ शक्येन दहनादिनेव गङ्गायां घोष इत्यादौ लक्षितेन तीरादिना सार्द्धम- गृहीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वान्वयबोध- प्रविष्टत्वादिति चेन्न । प्रकृत्यर्थावच्छिन्नस्यैव प्रत्य- यार्थस्य धर्म्म्यन्तरेऽन्वयबुद्धेर्व्व्युत्पन्नतया तीराद्य- विशेषितस्य सुबर्थाधेयत्वादेर्घोषादावन्वयबोधा- योगात् । न च शक्तस्यैव पदस्य स्वसाकाङ्क्ष- पदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्म्मिकान्वय- बोधं प्रति हेतुत्वादन्वयबुद्धौ लक्षार्थस्य प्रवेशः । कुन्ताः प्रविशन्तीत्यादौ लक्ष्यस्य कुन्तधरादेर- न्वयविशेष्यत्वानुपपत्तेः । कुमतिः पशुरित्यादौ लक्षार्थयोर्म्मिथोऽन्वयबोधस्याप्यनुभविकत्वाच्च । तस्मात् शक्तेरिव भक्तेरपि ज्ञानमनुभावकं भव- त्येव कार्य्यतावच्छेदकस्य सङ्कोचाच्च न व्यभि- चारः । इति शब्दशक्तिप्रकाशिका ॥