लक्ष्मणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मणः, पुं, (लक्ष्मणमस्त्यस्येति । अर्शआदि- त्वादच् ।) सारसः । इति हेमचन्द्रः ॥ श्रीराम- भ्राता । इति मेदिनी । णे, ७६ ॥ (यथा, अध्यात्मरामायणे । १ । ३ । ४५ । “भरणाद्भरतो नाम लक्ष्मणं लक्ष्मणान्वितम् । शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत ॥”) स च त्रेतायुगे अयोध्यायां सुमित्रागर्भे दश- रथाज्जातः । इन्द्रजिद्वधार्थं तस्य त्ततुर्द्दशवर्ष- पर्य्यन्तं आहारनिद्रादिरहितत्वं यथा, -- “एकदा रघुनाथश्च सीतया लक्ष्मणेन च । स्नातः सरसि तत्रस्थो रम्ये पञ्चवटीतटे ॥ उवाच सीतां हेमन्ते जलं सुस्वादु निर्म्मलम् । तथान्नव्यञ्जनं रम्यं सर्व्वं वस्तु सुशीतलम् ॥ फलञ्च चयनं चक्रे सीतायै प्रददौ पुरः । ततो ददौ लक्ष्मणाय पश्चाद्भुङ्क्ते स्वयं प्रभुः ॥ लक्ष्मणस्तु गृहीत्वा च नैव भुङ्क्ते फलं जलम् । मेघनादवधार्थञ्च सीतोद्धारणकारणात् ॥ निद्रां न याति नो भुङ्क्ते वर्षाणाञ्च चतुर्द्दश । य एव पुरुषो योगी तद्वध्यो रावणात्मजः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मणः&oldid=162291" इत्यस्माद् प्रतिप्राप्तम्