लक्ष्मीः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीः, स्त्री, (लक्षयति पश्यति उद्योगिनमिति । लक्षि + “लक्षेर्मुट् च ।” उणा० ३ । १६० । इति ईप्रत्ययो मुडागमश्च ।) विष्णुपत्नी । तत्पर्य्यायः । पद्मालया २ पद्मा ३ कमला ४ श्रीः ५ हरि- प्रिया ६ इन्दिरा ७ लोकमाता ८ मा ९ क्षीराब्धितनया १० रमा ११ । इत्यमरः ॥ जलधिजा १२ भार्गवी १३ । इति शब्दरत्ना- वली ॥ हरिवल्लभा १४ दुग्धाब्धितनया १५ क्षीरसागरसुता १६ । इति कविकल्पलता ॥ * ॥ अथ लक्ष्मीमन्त्राः । “वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् । बीजमेतत् श्रियः प्रोक्तं सर्व्वकामफलप्रदम् ॥” * ॥ अस्य पूजाप्रयोगः । प्रातःकृत्यादिपीठन्यासान्तं कर्म्म विधाय हृत्पद्मस्य पूर्ब्बादिकेशरेषु मध्ये च पीठशक्तीः पीठमनुञ्च न्यसेत् । ओ~ विभूत्यै नमः । एवं उन्नत्यै कान्त्यै सृष्ट्यै कीर्त्त्यै सन्नत्यै व्युष्ट्यै उत्कृष्ट्यै ऋद्ध्यै । ततः श्रीकमलासनाय नमः । इत्यासनं विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । शिरसि भृगुऋषये नमः मुखे निवृच्छन्दसे नमः । हृदि श्रियै देवतायै नमः । ततः कराङ्गन्यासौ कुर्य्यात् । श्रां अङ्गुष्ठाभ्यां नमः । श्रीं तर्जनीभ्यां स्वाहा । श्रूं मध्यमाभ्यां वषट् । इत्यादि । एव श्रां हृदयाय नमः इत्यादिना च न्यसेत् । तथा च निबन्धे । “अङ्गानि दीर्घयुक्तेन रमाबीजेन कल्पयेत् ।” ततो ध्यानम् । “कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यै- श्चतुर्भिर्गजै र्हस्तोत्क्षिप्तहिरण्मयामृतघटैराषिच्यमानां श्रियम् । बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटो- ज्ज्वलां क्षौमाबद्धनितम्बविम्बललितां वन्देऽरविन्द- स्थिताम् ॥” एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् । ततः पीठपूजां विधाय केशरेषु मध्ये च विभू- त्यादिपीठमन्वन्तपूजां विधाय पुनर्ध्यात्वा आवा- गृहीतं प्रथमं वस्त्रं वर्जयेन्न कदाचन ॥ अजरजः खररजस्तथा सम्मार्जनीरजः । स्त्रीणां पादरजो राजन् शक्रादपि हरेत् श्रियम् ॥ कुचेलिनं दन्तमलप्रधारिणं महाशठं निष्ठुरवाक्यभाषिणम् । सूर्य्योदये चास्तमिते तु शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥” महाशठमित्यत्र बह्वाशिनमिति वा पाठः । “नित्यं छेदस्तृणानां क्षितिनखलिखनं पाठः । रल्पशौचं एकाङ्गे तैलहीनं वसनमलिनताबन्धनं मूर्द्ध- जानाम् । द्बे सन्ध्ये चापि निद्रा विवसनशयणं ग्रासहासा- तिरेकः स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशव- स्यापि लक्ष्मीम् ॥” अबन्धनमित्यत्र रूक्षता इति वा पाठः । “एवं यः कुरुते नित्यं मयोक्तानि च केशव ! । तुष्टा भवामि तस्याहं त्वय्येषा निश्चला यथा ॥ श्रीभाषितमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् । तद्गृहं विपुलं रम्यं नित्यं भवति नान्यथा ॥ व्याधितो मुच्यते रोगी बद्धो मुच्येत बन्धनात् । आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा ॥” इति स्कन्दपुराणे लक्ष्मीकेशवसंवादे लक्ष्मी- चरित्रं समाप्तम् ॥ * ॥ दुर्गा । यथा, -- “स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च वा । लक्ष्मीर्व्वा ललना वापि क्रमात् सा कान्ति- रुच्यते ॥ इति देवीपुराणे ५५ अध्यायः ॥ सम्पत्तिः । शोभा । ऋद्ध्यौषधम् । वृद्धिनामौ- षधम् । फलिनीवृक्षः । इति मेदिनी । मे, २८ ॥ सीता । वीरयोषित् । इति शब्दरत्नावली ॥ स्थलपद्मिनी । हरिद्रा । शमी । द्रव्यम् । मुक्ता । इति राजनिर्घण्टः ॥ मोक्षप्राप्तिः । इति चण्डीटीकायां नागभट्टः ॥ (शोभा । यथा, कुमारे । ३ । ४९ । “कपालनेत्रान्तरलब्धमार्गै- र्ज्यातिःप्ररोहैरुदितैः शिरस्तः । मृणालसूत्राधिकसौकुमार्य्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥”)

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीः&oldid=162296" इत्यस्माद् प्रतिप्राप्तम्