लक्ष्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्यम्, क्ली, (लक्ष्यते यदिति । लक्ष् + ण्यत् ।) शरवेधस्थानम् । तत्पर्य्यायः । लक्षम् २ शर- व्यम् ३ । इत्यमरः । २ । ८ । ८६ ॥ प्रतिकायः ४ वेध्यम् ५ । इति जटाधरः ॥ वेधम् ६ । इति शब्दरत्नावली ॥ (यथा, कुमारे । ३ । ६४ । “कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः । उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥”)

"https://sa.wiktionary.org/w/index.php?title=लक्ष्यम्&oldid=162329" इत्यस्माद् प्रतिप्राप्तम्