लज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज, भर्त्से । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) लजति । इति दुर्गादासः ॥

लज, इ भर्त्से । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) इ, लञ्ज्यते । इति दुर्गादासः ॥

लज, इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-अक०-सक० च-सेट् ।) इ क, लञ्जयति । भा दीप्तिः षट्टार्थो निकेतनहिंसा- बलदानानि । इति दुर्गादासः ॥

लज, क अन्तर्द्धौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) अन्तर्द्धिराच्छादनम् । क, लाजयति चन्द्रं मेघः । इति दुर्गादासः ॥

लज, ङ व्रीडे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ङ, लजते । निष्ठायां लग्न इत्यन्ये । इति दुर्गादासः ॥

लज, त् क भासने । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-अक०-सेट् ।) क, लजयति । भासनं दीप्तिः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज¦ व्रीडायाम् भ्वा॰ आ॰ अक॰ सेट्। लजते अलजिष्ट।

लज¦ तिरस्कारे भ्वा॰ पर॰ सक॰ सेट् इदित्। लञ्जति अलञ्जीत्

लज¦ अन्तर्द्धाने चुरा॰ उ॰ सक॰ सेट्। लाजयति--ते अली-लजत् त।

लज¦ भाषणे हिंसायां दाने च सक॰ सामथ्य वास च अक॰चुरा॰ उभ॰ सेट् इदित्। लञ्जयति--ते अललञ्जत् त।

लज¦ भासने अद॰ चु॰ उभ॰ सक॰ सेट्। लजयति--ते अललजत्--त

"https://sa.wiktionary.org/w/index.php?title=लज&oldid=225704" इत्यस्माद् प्रतिप्राप्तम्