लवङ्गम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवङ्गम्, क्ली, (लुनाति श्लेष्मादिकमिति । लू + “तरत्यादिभ्यश्च ।” उणा० १ । ११९ । इति अङ्गच् ।) स्वनामख्यातबणिग्द्रव्यभेदः । तत्- पर्य्यायः । देवकुसुमम् २ श्रीसंज्ञम् ३ । इत्य- मरः ॥ श्रीप्रसूनम् ४ । इति भावप्रकाशः ॥ लवङ्गकम् ५ । इति शब्दरत्नावली ॥ लवङ्ग- कलिका ६ दिव्यम् ७ शेखरम् ८ लवम् ९ श्रीपुष्पम् १० रुचिरम् ११ वारिसम्भवम् १३ भृङ्गारम् १४ गीर्व्वाणकुसुमम् १५ चन्दन- पुष्पम् १६ । अस्य गुणाः । शीतलत्वम् । तिक्त- त्वम् । चक्षुष्यत्वम् । भुक्तरोचनत्वम् । वात- पित्तकफनाशित्वम् । ताक्ष्णत्वम् । मूर्द्धरुजा- पहत्वञ्च । इति राजनिर्घण्टः ॥ आध्मानानाह- शूलघ्नत्वम् । दीपनत्वम् । लघुत्वञ्च । इति राज- वल्लभः ॥ अपि च । “लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हिमम् । दीपनं पाचनं रुच्यं कफपित्तास्ननाशकृत् ॥ तृष्णां छर्द्दिं तथाध्मानं शूलमाशु विनाशयेत् । कासं श्वासञ्च हिक्काञ्च क्षयं क्षपयति ध्रुवम् ॥” इति भावप्रकाशः ॥ (यथा, -- “विरहानलसन्तप्ता तापिनी कापि कामिनी । लवङ्गानि समुत्सृज्य ग्रहणे राहवे ददौ ॥” इत्युद्भटः ॥)

"https://sa.wiktionary.org/w/index.php?title=लवङ्गम्&oldid=162597" इत्यस्माद् प्रतिप्राप्तम्