लालायित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालायितः, त्रि, लालाविशिष्टः । कातर इति यावत् । लालाशब्दात् नमस्तपोवरिवः कण्ड्वा- दिभ्यः क्यः कृतौ इति मुग्धबोधव्याकरणसूत्रेण क्यप्रत्यये कृते क्तप्रत्ययान्निष्पन्नः । यथा । अत्र लालायितः फणी । इति अनन्तदेवोक्तगणेश- लिखितपाणिनिव्याकरणीयमहाभाष्यम् ॥ अपि च । “परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः । फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता ॥” इति पूर्ब्बनैषधे २ सर्गः ॥ परिखेति । शत्रूणां ग्रहणगोचरो नेयमिति कृत्वा परिखावलयव्याजेन या पुरी कुण्डलनां प्रापिता विधात्रेति शेषः । फणिना भाषिता या महाभाष्यफक्किका तद्बद्बिषमा सापि परेषां ज्ञानगोचरो नेयमिति कृत्वा अत्र लालायितः फणीत्येवं कुण्डलनां प्रापिता पण्डितैरिति शेषः । इति भवदत्तकृततट्टीका ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालायित mfn. emitting saliva , slobbering , drivelling L.

"https://sa.wiktionary.org/w/index.php?title=लालायित&oldid=228282" इत्यस्माद् प्रतिप्राप्तम्