लास्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लास्यम्, क्ली, (लस् + “ॠहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।) नृत्यम् । इत्यमरः ॥ तौर्य्यत्रिकम् । इति मेदिनी ॥ भावाश्रयं नृत्यम् । ताललयाश्रयं नृत्यम् । इति भरतः ॥ “पुंनृत्यं ताण्डवं प्राहुः स्त्रीनृत्यं लास्यमुच्यते ।” इति सङ्गीतनारायणे नारदसंहिता ॥ (यथा, महाभारते । १ । ९८ । १० । “सम्भोगस्नेहचातुर्य्यैर्हावलास्यमनोहरैः । राजानं रमयामास तथा रेमे तथैव सः ॥”)

लास्यः, पुं, (लास्यमस्त्यस्येति । लास्य + अच् ।) नर्त्तकः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लास्य नपुं।

नृत्यम्

समानार्थक:ताण्डव,नटन,नाट्य,लास्य,नृत्य,नर्तन

1।7।10।1।4

ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने। तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्.।

वृत्तिवान् : नर्तकी,नटः

 : नृत्यविशेषः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लास्य¦ न॰ लस--ण्यत्।

१ नृत्ये अमरः।

२ वाद्यनृत्यगीति-त्रिके मेदि॰।
“स्त्रीनृत्यं लास्यमुच्यते” इत्युक्ते

३ स्त्री-तृत्ये च। स्वार्थे अ। तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लास्य¦ n. (-स्यं)
1. Dancing in general.
2. Symphony, or union of song, dance, and instrumental music.
3. A mode of dance in which the emotions of love are represented mimically, the Na4utch of India, or dance practised by women chiefly, and confined to attitude and gesticulation, with a shuffling motion of the feet [Page617-b+ 60] seldom lifted from the ground; this style is said to have been invented by PA4RVATI4, and communicated by her to the daughter of VA4N4ASURA, by whom her female friends and companions were instructed in it; as a species, it is opposed to the TA4NDAVA, the most boisterous dance of S4IVA, and his followers or men.
4. A part or embellishment of dramatic composition, the occasional introduction of music and singing; also abrupt transition from Pra4krita to Sanskrit and from Sanskrit to Pra4krita, &c. m. (-स्यः) A dancer. f. (-स्या) A female dancer. E. लस् to be skilled in the art of dancing, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लास्यम् [lāsyam], [लस्-ण्यत्]

Dancing; a dance; आस्ये धास्यति कस्य लास्यमधुना ... वाचां विपाको मम Bv.4.42; R.16.14.

A dance accompanied with singing and instrumental music.

A dance in which the emotions of love are represented by means of various gesticulations and attitudes; अरुणाधरकिरणबालकिसलयलास्यहेतुभिः Dk.2.5. -स्य- A dancer, an actor. -स्या A dancing girl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लास्य n. dancing , a dance ( esp. accompanied with instrumental music and singing) , a dance representing the emotions of love dramatically (this was at one time a principal part of the drama , and as such accord. to भरतand the दश-रूपconsisted of 10 divisions or अङ्गs , viz. गेय-पद, स्थित-पाठ्य, आसीन, पुष्प-गण्डिका, प्रच्छेदक, त्रि-गूढor त्रि-मूढक, सैन्धव, द्विगूढकor विमूढक, उत्तमोत्तमक, and उक्त-प्रत्युक्त; including also a style of dramatic composition in which there is abrupt transition from Sanskrit to Prakrit and from Prakrit to Sanskrit ; the term लास्यis also applied to the Nach [Nautch] dance of the Indian dancing girls , consisting chiefly of gesticulation with a shuffling movement of the feet forwards and backwards , as invented by पार्वतिand opposed to the boisterous masculine dance called ताण्डवpractised by शिवand his followers ; See. IW. 467 ) MBh. Ka1v. etc.

लास्य m. a dancer Ma1rkP.

लास्य m. N. of a king VP.

"https://sa.wiktionary.org/w/index.php?title=लास्य&oldid=504000" इत्यस्माद् प्रतिप्राप्तम्