लिङ्ग

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्गम्, क्ली, (लिङ्ग्यते अनेन इति । लिङ्ग + घञ् । अभिधानात् क्लीवलिङ्गत्वम् ।) चिह्रम् । (यथा, महाभारते । १ । २ । १२ । “येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥”) शेफः । इत्यमरः ॥ अनुमानम् । साङ्ख्योक्त- प्रकृतिः । (यथा, सांख्यकारिकायाम् । ५५ । “तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं स्वभावेन ॥” प्रकृतिकार्य्यं विकृतिश्च । यथा, तत्रैव । १० । “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । तत्त्वमसीति नवकृत्वः प्रतिपादनम् ॥ २ ॥ प्रक- रणप्रतिपाद्यस्य वस्तुनः प्रमाणान्तरेणाविषयी- करणं अपूर्ब्बत्वम् । यथा । तत्रैवाद्वितीय- वस्तुनो मानान्तराविषयीकरणम् ॥ ३ ॥ फलन्तु । प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्रयोजनम् । यथा । तत्रैव आचार्य्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्षे अथ सम्पत्स्ये इत्यद्वितीयवस्तु- ज्ञानस्य तत्प्राप्तिप्रयोजनं श्रूयते ॥ ४ ॥ प्रकरण- प्रतिपाद्यस्य तत्र तत्र प्रशंसनं अर्थवादः । यथा तत्रैव उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमित्यद्वितीय- वस्तुप्रशंसनम् ॥ ५ ॥ प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिः उपपत्तिः । यथा तत्र यथा सौम्यैकेन मृत्पिण्डेन सर्व्वं मृण्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । इत्यादावद्बितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते ॥ ६ ॥ इति श्रीपरमहंससदानन्दयोगीन्द्रविरचित- वेदान्तसारः ॥ (पुराणविशेषः । यथा, देवी- भागवते । १ । ३ । १० । “एकादशसहस्राणि लिङ्गाख्यं चातिविस्तृतम् ॥” अस्यान्यद्बिवरणं पुराणशब्दे द्रष्टव्यम् ॥ हेतुः । यथा, तर्ककौमुद्याम् । “लिङ्गज्ञानजन्यं लिङ्गि- ज्ञानमनुमितिः ॥ “ज्ञायमानं लिङ्गन्तु करणं न हि ।” इति भाषापरिच्छेदः ॥ सूक्ष्मशरीरम् । यथा, पञ्चदश्याम् । १ । २३ । “बुद्धिकर्म्मेन्द्रियप्राणपञ्चकैर्म्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्ग नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

3।3।25।2।2

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

लिङ्ग नपुं।

पुरुषलिङ्गः

समानार्थक:शिश्न,मेढ्र,मेहन,शेफस्,लिङ्ग,प्रकृति

3।3।25।2।2

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

सम्बन्धि1 : पुरुषः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्ग¦ पु॰ लिगि--अच्।

१ चिह्ने

२ पुसोऽसाधारणचिह्नेउपस्थेन्द्रिये अमरः।

३ अनुमानसाधने हेतौ

४ सांख्यो-क्ते प्रधाने तस्यात्मविवेकहेतुत्वात् तथात्वम्।

५ शिवमूर्त्ति-भेदे मेदि॰

६ व्याप्ये

७ व्यक्ते शब्दानष्ठे पदसाधुताप्रयो-जके

८ धर्मभेदे त्रिका॰

९ अर्थप्रकाशनसामर्थ्ये च।
“क्षमताच लिङ्गमिति” मीसांसकाः। ( शब्दधर्भलिङ्गं चास्माभिः शबदार्थरत्ने निरूपितं यथा
“लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मको धर्म एव तद्विशेषश्चपुंनपुंसकत्वादिः। तथा हि सर्वेषां त्रिगुणप्रकृतिका-र्य्यतया शब्दानामपि तथात्वेन गुणगतविशेषाच्छस्देषुलिङ्गविशेष इति कल्प्यते स च विशेषः शास्त्रे इत्थ-मभ्यधायि।
“विकृतसत्त्वादीनां तुल्यरूपेणावस्थानात्नपुंसकत्वं सत्त्वस्याधिक्ये पुंस्त्वम् अल्पत्वे(रज आधिक्ये)स्त्री त्वमिति”। एवञ्च लिप्तस्य शब्दधर्मत्वेऽपि शब्देन[Page4826-b+ 38] सहार्थाभेदारोपात् असति बाधके अर्थेऽपि साक्षात्तत्पारतन्त्र्येण वा सर्वत्र तस्य विशेषणत्वम् शाब्दबोधेशब्दभानस्येष्टत्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्ग-स्यापि नांमार्थतौचित्यात्
“न सोऽस्ति प्रत्ययो लोके यःशब्दानुगमादृते” इति हर्य्युक्तेः
“शब्दोऽपि यदि भेदेनविवक्षा स्यात्तदा तथा। नो चेत् श्रोत्रादिभिः सिद्धो-{??}यसावर्थेऽवभासते” हर्य्युक्तेश्च शब्दानां नामार्थ-तावगतेः। तथा प्रातिपदिकार्थाभेदविवक्षायां तुश्रोत्रादिभिरेव सिद्धः ज्ञातः सन् अर्थे प्रकारतया भा-सते इति तदर्थः। युक्तञ्चैतत् पुंलिङ्गः शब्द इतिव्यवहारात्
“स्वमोर्नपुंसकादिति” पा॰ सूत्रे शब्दस्यैव नपुं-सकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयबाधाच्च लिङ्गस्यशब्दधर्मत्वमन्यथैतेषु लिङ्गाद्यनन्वयापत्तेर्व्यवहारसूत्र-निर्देशासङ्गत्यापत्तेश्च। तथा अर्थभेदाच्छब्दभेदवत् लि-ङ्गभेदादपि शब्दभेद इति कल्प्यते प्रागुक्तवर्मविशेषरूप-भेदकसद्भावात्। उक्तञ्च भाष्ये
“एकार्थे शब्दान्यत्वाद्दृष्टं लिङ्गान्यत्वमिति”। एवञ्च तटादिशब्दानामनेक-लिङ्गत्वव्यहारः समानानुपूर्वीकत्वेनैव वस्तुतस्तेषांभिन्नानामेव भिन्नलिङ्गत्वमिति दिक्”। ( अर्थप्रकाशनसामर्थ्यरूपलिङ्गन्तु द्वितीयादिश्रवणेतत्तन्मन्त्रपकाश्यार्थे विनियोगसाधकं यथा
“बर्हिर्देवसदनंदानीति अत्र दानीति पदस्य दा लवने इत्यस्माद्धातोसिद्धस्य च्छेदनप्रकाशनसामर्थ्यात् वर्हिरित्यस्य चास्तृत-दर्भप्रकाशनसामर्थ्यात् दर्भच्छेदने समुदायमन्त्रस्य वि-नियोगोऽवगम्यते” तत्त्वबोध॰। प्रत्यक्षद्वितीयाश्रवणे तुलैङ्गिकविनियोगस्त्यज्यते
“श्रुतिलिङ्गवाक्यप्रकरणस्थानस-माख्याना समवाये पारदौर्बल्यमर्थविप्रकर्षात्” जै॰ सू॰। यथा
“ऐन्द्र्या गार्हपत्यमुप्रतिष्ठते” श्रुतिः ऐन्द्री च ऋक्
“कदाचन स्तरोरसि नेन्द्र! दासुषे” अस्य मन्त्रस्य इन्द्र-प्रकाशनसामर्थ्यम् तदेतत् निरूपितं तत्त्वबोधन्याम्
“तथा हि गार्हपत्यमिति द्वितीयारूपप्रत्यक्षश्रुत्या गार्ह-पत्याग्निगतं क्रियाजन्यप्रीतिफलाश्रययत्वरूपं कर्मत्वंसाक्षाद्बोधितं तथा च तस्य देवतात्वं श्रुतिप्राप्तं क्रि-याजन्य{??}ईतिभागित्वेनोद्देश्यस्यैव देवतात्वादिति गार्ह-पत्याग्नेरुपस्थानस्य शेषितावगम्यते ऐन्द्र्येति तृतीययाऋचः करणत्वबोधनादुपस्थानशेषत्वमवगम्यते मन्त्रलिङ्गे-नेन्द्रस्यापि शेषत्वमित्युभयोरुपस्थानं देवतात्वञ्चावगम्यते। तथा{??} विरोधः न ह्यन्यप्रकाशकमन्त्रेणान्योपस्थानं[Page4827-a+ 38]{??}वहितसिति तत्परीहाराय मन्त्रस्थेन्द्रपदे विधिवाक्य-स्थगार्हपत्यपदे वा एकत्र लक्षणावश्यकी। तत्र गार्हपत्यपदस्य इन्द्रे न लक्षणा गार्ह्यपत्यदेवतात्वस्य लिङ्गानिर-पेक्षश्रुतिप्राप्तत्वात् इन्द्रदेवतात्वन्तु लिङ्गेन विलम्बबोध्यम्। तथा हि इन्द्रप्रकाशनसामर्थ्यान्यथानुपत्त्या इन्द्रमुपति-ष्ठते इति कल्प्यते इति इन्द्रस्य देवतात्वं विलम्बगम्यमितिशीघ्रबोधकत्वेन श्रुतिरेव वलयसीति लिङ्गं दुर्बलम्। अतएव न समुच्चयः न वा इन्द्रस्यैवेति नियमः लिङ्गःदुर्बलत्वेन इन्द्रोपस्थानस्याप्राप्तत्वात्। एवञ्च श्रुतितोऽग्नेरुपस्थाने सिद्धे कथमित्याकाङ्क्षायामैन्द्र्येति। ततश्चमन्त्रस्येन्द्रप्रकाशकत्वात् तेनाग्नेरुपस्थानानुपपत्तेः नह्यन्योपस्थापकमन्त्रेणान्यस्योपस्थानं युक्तमित्यनुपपत्त्या-मन्त्रस्थेन्द्रपदस्य इदि परमैश्वर्य्य इति धात्वनुसारादैश्वर्य्य-गुणयोगादग्नौ लक्षणा”
“यावदेव हि मन्त्रार्थो मन्त्रेणप्रतिपाद्यते। मन्त्रार्थं मन्त्रतो बुद्ध्वा पञ्चाच्छक्तिर्निरूप्यते। मन्त्राकाङ्क्षावशेऽन्येन्द्रशेषत्वश्रुतिकल्पना। श्रुत्या प्रत्यक्षयापूर्वं नार्हपत्यार्थतां तते। लिङ्गस्य हि प्रमाणत्वं मन्त्राका-ङ्क्षानिबन्धनम्। ताञ्च श्रुतिर्विरुध्यन्ती ह्यविरोधेनगच्छति। विरोधे च श्रुतिर्लिङ्गं बलीयस्त्वेन बाधते”। लियं लयं गच्छति पृषो॰।

१० सांख्योक्ते महत्तत्त्वे देहशब्दे

३७

५४ पृ॰ दृश्यम्।

११ सप्तदशाबयवे लिङ्गदेहे। (
“सप्तदशैकं लिङ्गम्” सा॰ सू॰
“सूक्ष्मशरीरमप्या-धाराधेयभावेन द्विविधं भवति तत्र सप्तदश मिलित्वालिङ्गशरीरं तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः। एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश। अहङ्कारस्य बुद्धावेवान्तर्भावः। चतुर्थसूत्रवक्ष्यमाणप्रमा-णादेतान्येव सप्तदशलिङ्गं मन्तव्यम्। न तु सप्तदश एकंचेत्यष्टादशतया व्याख्येयम् उत्तरसूत्रेण व्यक्तिभेदस्यो-पपाद्यतयात्र लिङ्गैकत्वे एकशब्दस्य तात्पर्य्यावधारणाच्च।
“कर्मात्मा पुरुषो योऽसौ बन्धमोक्षैः स युज्यते। ससप्तदशकनापि राशिना युज्यते च सः” इति मोक्षधर्मादौलिङ्गशरीरस्य सप्तदशत्वसिद्धेश्च सप्तदंशावयवा अत्र स-न्तीति सप्तदशको राशिरित्यथः। राशिशब्देन स्थूलदेहस्यावयवित्वं निराकृतम् अवयविरूपेण द्रव्यान्तर-कल्पवायां गौरवात्। स्थूलदेहस्य चावयवित्वमेकतादिप्रत्यक्षानुरोधेन कल्प्यत इति। अत्र च लिङ्गदेहेबुद्धिरेव प्रधानेत्याशयेन लिङ्गदेहस्य भोगः प्रागुक्तः।{??}श्चान्तःकरणस्यैव वृत्तिभेदः। अतो लिङ्गदेहे प्राण-[Page4827-b+ 38] पञ्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशावयवकस्य शरीरत्वं स्वयंवक्ष्यति
“लिङ्गशरीरनिमित्तक इति सनन्दनाचार्य्यः” इतिसूत्रेण। अतो भोगायतनत्वमेव मुख्यं शरीरलक्षणम्। तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चाद्व्यक्तीभवि-व्यति। चेष्टेन्द्रियार्थाश्रयः शरीरमिति तु न्यायेऽपितस्यैव लक्षणं कृतमिति” भा॰।
“तदधिष्ठानाश्रये देहे तद्-वादाद् तद्वादः” सा॰ सू॰।
“तस्य लिङ्गस्य तदधि-ष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्नये षाट्कौशिक-देहे तद्वादो देहवादस्तद्वादाद् तस्याधिष्ठानशब्दोक्तस्यदेहस्य वादादित्यर्थः लिङ्गसम्बन्धादधिष्ठानस्य देहत्वमधि-ष्ठानाश्रयत्वाच्च स्थूलस्य देहत्वमिति पर्य्यवसितोऽर्थः”। अधिष्ठानशरीरं च सूक्ष्मं पञ्चभूतात्मकं वक्ष्यते तथा चशरीरत्रयं सिद्धम्”
“वासना भूतसूक्ष्मं च कर्मविद्येतथैव च। दशेन्द्रियं मनोबुद्धिरेतल्लिङ्गं विदुर्बुधाः” इति वाशिष्ठादिवाक्येभ्यः। अत्र लिङ्गशरीरप्रतिपादन-गैव पुर्य्यष्टकमपि व्याख्येयमित्याशयेन बुद्धिधर्माणामपिवासनाकर्मविद्यानां पृथगुपन्यासः। भूतसूक्ष्मं चात्रतन्मात्रा, दशेन्द्रियाणि च ज्ञानकर्मेन्द्रियभेदेन पुरद्वय-मित्याशयः। यत् तु मायावादिनो लिङ्गशरीरे त-न्मात्मस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति पुर्य्यष्टकं चान्यथाकल्पयन्ति तदप्रामाणिकमिति” भा॰। वेदान्तिनये
“पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृत-भूतोत्थं सूक्ष्माङ्गं भोगसाधनम्” इत्युक्तं सप्तदशावयवंलिङ्गशरीरमिति भेदः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्ग¦ n. (-ङ्कं)
1. A mark, a spot, a stain, a sign, a token, &c.
2. A badge or mark assumed with a view to deceive.
3. A sign of sex, the penis.
4. The phallus, or S4IVA under that emblem.
5. In- ference, probable conclusion.
6. The premises leading to a con- clusion.
7. Nature or Prakriti4, according to the Sa4nk'hya philosophy, which considers this as the active power in cretion.
8. Gender, (as पुंलिङ्गः the masculine gender, &c.)
9. The order of the religious student.
10. Symptom or mark of disease.
11. The [Page618-a+ 60] predicate of a proposition.
12. Evidence. E. लिगि to go, &c., aff. अच् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्गम् [liṅgam], [लिङ्ग्-अच्]

A mark, sign, token, an emblem, a badge, symbol, distinguishing mark, characteristic; यतिपार्थिवलिङ्गधारिणौ R.8.16; अथवा प्रावृषेण्यैरेव लिङ्गै- र्मम राजोपचारः संप्रति V.4; मुनिर्दोहदलिङ्गदर्शी 14.71; Ms.1. 3;8.25,252.

A false or unreal mark, a guise, disguise, a deceptive badge; लिङ्गैर्मुदः संवृतविक्रियास्ते R.7. 3; क्षपणकलिङ्गधारी Mu.1; न लिङ्गं धर्मकारणम् H.4.85. See लिङ्गिन् below.

A symptom, mark of disease.

A means of proof, a proof, evidence.

(In logic) Thehetu or middle term in a syllogism; particularly the assertion of the hetu's being found in the पक्ष or minor term coupled with the statement of the invariable concomitance between this hetu and the major term; it is thus defined: व्याप्तिपक्षधर्मतावल्लिङ्गम् Tarka K.

The sign of gender or sex.

Sex; गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः U.4.11.

The male organ of generation.

Gender (in gram.)

The genital organ of Śiva worshipped in the form of a Phallus.

The image of a god, an idol; धत्ते$सावात्मनो लिङ्गं मायया विसृजन् गुणान् Bhāg.7.2.22.

One of the relations or indications (such as संयोग, वियोग, साहचर्य &c.) which serve to fix the meaning of a word in any particular passage; e. g. in कुपितो मकरध्वजः the word कुपित restricts the meaning of मकरध्वज to 'Kāma'; see K. P.2 and commentary ad loc.; तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य Bṛi. Up.4.4.6.

(In Vedānta phil.). The subtle frame or body, the indestructible original of the gross or visible body; cf. पञ्चकोष; यं योगिनो योग- समाधिना रहो ध्यायन्ति लिङ्गादसुतो ममुक्षया Bhāg.3.19.28.

A spot, stain.

The nominal base, the crude form of a noun (प्रातिपदिक).

(In Sāṅ. phil.) Pradhāna or Prakṛiti; q. v.

The effect or product (that which is evolved out of a primary cause and itself becomes a producer).

Inference, conclusion; अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् Mb.12.189.15.

= उपाधि; योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपोहेत् कुशलो$हमाख्यम् Bhāg.5.5.13. -Comp. -अग्रम् the glans penis. -अनु- शासनम् the laws of grammatical gender. -अर्चनम् the worship of Śiva as a liṅga. -अर्शस् n. a particular disease of the genital organs. -आख्यः Name of one of the sub-divisions of the production according to Sāṅkhya; लिङ्गाख्यो भावाख्यः Sān K.52. -देहः, -शरीरम् the subtle frame or body; see लिङ्ग (13) above. -धारिन् a. wearing a badge.

नाशः loss of the characteristic marks.

loss of penis.

loss of vision, a particular disease of the eye. -परामर्शः the finding out or consideration of a sign or characteristic (in logic); (e. g. that smoke is a sign of fire); as वह्निव्याप्यधूमवानयं पर्वतः इति लिङ्गपरामर्शः. -पीठम् the pedestal of a शिवलिङ्ग. -पुराणम् N. of one of the 18 Purāṇas. -प्रतिष्ठा the establishment or consecration of a liṅga. -वर्धन a. causing erection of the male organ. -विपर्ययः change of gender. -वृत्तिa. hypocritical. -वृत्तिः a religious hypocrite. -वेदी the base or pedestal of a liṅga. -शास्त्रम् a grammatical treatise on gender. -शोफः swelling on the penis.-स्थः a religious student; न श्रोत्रियो न लिङ्गस्थः (साक्षी कार्यः) Ms.8.65.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्ग n. (once m. in Nr2isUp. ; ifc. f( आ). , f( ई). only in विष्णु-लिङ्गी; prob. fr. लग्; See. लक्ष, लक्षण)a mark , spot , sign , token , badge , emblem , characteristic( ifc. = तल्-लिङ्ग, " having anything for a mark or sign ") Up. MBh. etc.

लिङ्ग n. any assumed or false badge or mark , guise , disguise MBh. Ka1v. etc.

लिङ्ग n. a proof , evidence Kan2. Ka1tyS3r. Sarvad.

लिङ्ग n. a sign of guilt , corpus delicti Ya1jn5. Sch.

लिङ्ग n. the sign of gender or sex , organ of generation Mn. Hariv. Pur. etc.

लिङ्ग n. the male organ or Phallus ( esp. that of शिवworshipped in the form of a stone or marble column which generally rises out of a योनि, See. , and is set up in temples dedicated to शिव; formerly 12 principal शिव-लिङ्गs existed , of which the best known are सोम-नाथin Gujarat , महा-कालat उज्जयिनी, विश्वे-श्वरat Benares etc. ; but the number of लिङ्गs in India is estimated at 30 millions IW. 322 n. RTL. 78 , 1 ; 90 ) MBh. R. etc.

लिङ्ग n. gender (in gram. ; See. पुं-ल्) , Prst. Pa1n2.

लिङ्ग n. the image of a god , an idol VarBr2S.

लिङ्ग n. (in logic)= व्याप्य, the invariable mark which proves the existence of anything in an object (as in the proposition " there is fire because there is smoke " , smoke is the लिङ्ग; See. IW. 62 )

लिङ्ग n. inference , conclusion , reason(See. काव्य-ल्)

लिङ्ग n. = लिन्गशरीर(in वेदान्त)

लिङ्ग n. anything having an origin and therefore liable to be destroyed again Kap.

लिङ्ग n. = आकाशKa1ran2d2.

लिङ्ग n. (in सांख्य)= प्रकृतिor प्रधान, " the eternal procreative germ " L.

लिङ्ग n. = व्यक्तL.

लिङ्ग n. See. RTL. 30

लिङ्ग n. = प्रातिपदिक, the crude base or uninflected stem of a noun (shortened into लि) Vop. Sch.

लिङ्ग n. (in rhet. )an indication (word that serves to fix the meaning of another word ; e.g. in the passage कुपितो मकर-ध्वजःthe word कुपितrestricts the meaning of मकर-ध्वजto " काम")= लिन्ग-पुराणBhP.

लिङ्ग n. the order of the religious student W.

लिङ्ग n. a symptom , mark of disease W.

"https://sa.wiktionary.org/w/index.php?title=लिङ्ग&oldid=504003" इत्यस्माद् प्रतिप्राप्तम्