लेख्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेख्यम्, त्रि, (लिख + ण्यत ।) लेखितव्यम् लेखनीयम् । इति लिखधातोः कर्म्मणि यप्रत्य- येन निष्पन्नम् ॥ * ॥ व्यवहाराङ्गकक्रियापादा- ङ्गम् । यथा, -- “षाण्मासिकेऽपि समये भ्रान्तिः संजायते यतः । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ लेख्यन्तु द्विविधं प्रोक्तं स्वहस्तान्यकृतन्तथा । असाक्षिकं साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥ मृतास्तु साक्षिणो यत्र धनिकर्णिकलेखकाः । तदप्यपार्थं करणमृते त्वाधेः स्थिराश्रयात् ॥ दर्शितं प्रतिकालञ्च पठितं श्रावितञ्च यत् । लेख्यं सिध्यति सर्व्वत्र मृतेष्वपि च साक्षिषु ॥” इति व्यवहारतत्त्वे बृहस्पतिः ॥ अपि च । साम्प्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्बिविधम् । शासनं जानपदञ्चेति । शासनं निरू- पितम् । जानपदमभिधीयते । तच्च द्विविधम् । स्वहस्तकृतमन्यकृतञ्चेति । तत्र स्वहस्तकृतम- साक्षिकम् । अन्यकृतं ससाक्षिकम् । अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यदाह नारदः । “लेख्यन्तु द्विविधं ज्ञेयं स्वहस्तान्यकृतन्तथा । असाक्षिमत् साक्षिमच्च सिद्धिदेशस्थितेस्तयोः ॥” इति ॥ तत्रान्यकृतमाह । “यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यन्तु साक्षिमत् कार्य्यन्तस्मिन् धनिकपूर्व्वकम् ॥” धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमितीयती च प्रतिमास्रं वृद्धिरिति निष्णातो व्यवस्थित- स्तस्मिन्नर्थ कालान्तरे विप्रतिपत्तौ वस्तुतत्त्व- निर्णयार्थं लेख्यम् । साक्षिमदुक्तलक्षणं साक्षि- युक्तम् । धनिकः पूर्व्वो यस्मिन् तद्धनिकपूर्व्वकम् । धनिकनामलेखनपूर्ब्बकमिति यावत् कार्य्यं कर्त्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः । “कर्त्त्रा तु यत् कृतं कार्य्यं सिद्ध्यर्थन्तस्य साक्षिणः । प्रवर्त्तन्ते विवादेषु स्वकृतं वाप्यलेख्यकम् ॥” इति स्मरणात् ॥ आप च । “समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीयपितृनामादिचिह्रितम् ॥” समा संवत्सरः । मासश्चैत्रादिस्तदर्द्धः पक्षः शुक्लः कृष्णो वा । अहस्तिथिः प्रतिपदादिः । नाम धनिकाधमर्णयोः । जातिर्ब्राह्मणादिः । स्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्रि- तम् । तथा सब्रह्मचारिकं बह्वृचादिशाखा- प्रयुक्तं गुणनामबह्वृचः कठ इति । आत्मीय- पितृनाम धनिकर्णिकपितृनाम । आदि ग्रह- णाद्द्रव्यजातिसंख्याचारादेर्ग्रहणम् । एतैश्चि- ह्रितं लेख्यं कार्य्यमिति गतेन सम्बन्धः । किञ्च । साक्षिभिर्निर्णयः कार्य्यः । यथाह कात्यायनः । “दूषिते पत्रके वादी तदारूढांस्तु निर्द्दिशेत् ॥” इति । साक्षिसम्भवविषयमिदं वचनम् । साक्ष्यसम्भव- विषयन्तु हारीतवचनम् । “न मयैतत् कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत् पत्रमथ दिव्येन निर्णयः ॥” इति ॥ * ॥ एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदा कृत्स्नमेवर्णन्दातुमसमर्थस्तदा किं कर्त्तव्यमित्यत आह । “लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वर्णिको धनम् । धनी चोपगतं दद्यात् स्वहस्तपरिचिह्रितम् ॥” यदाधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्त्यनुसारेण दत्त्वा दत्त्वा पूर्व्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेदेतावन्मया दत्तमिति । उत्तमर्णो वा उपगतं प्राप्तं धनन्तस्यैव लेख्यस्य पृष्ठे दद्या- दभिलिखेदेतावन्मया लब्धमिति । कथं स्वहस्त- परिचिह्रितम् । स्वहस्तलिखिताक्षरचिह्रितम् । यद्वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्रित- मधमर्णायोत्तमर्णो दद्यात् ॥ * ॥ ऋणे तु कृत्स्ने दत्ते लेख्यं किं कर्त्तव्यमित्यत आह । “दत्त्वर्णं पाटयेल्लेख्यं शुद्धौ चान्यत्तु कारयेत् ॥” क्रमेण सकृदेव वा कृत्स्नमृणन्दत्त्वा पूर्व्वकृतं लेख्यम्पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यलेख्यं कारयेदुत्तमर्णमधमर्णः पूर्ब्बोक्तक्रमेणोत्तमर्णो विशुद्धिपत्रं अधमर्णाय दद्यादित्यर्थः ॥ * ॥ ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्त्तव्य- मित्यत आह । “साक्षिमच्च भवेत् यद्वा तद्दातव्यं ससाक्षिकम् ।” यत्तु ससाक्षिकमृणन्तत् पूर्व्वसाक्षिसमक्षमेव दद्यात् । इति लेख्यप्रकरणम् । इति मिता- क्षरायां व्यवहाराध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=लेख्यम्&oldid=162942" इत्यस्माद् प्रतिप्राप्तम्