लोचनम्

विकिशब्दकोशः तः
लोचनम्

संस्कृतम्[सम्पाद्यताम्]

  • लोचनं, नेत्रं, ईक्षणं, अक्षिं, नयनं, अम्बकं, चक्षस्, दर्पनं, दर्शनं, तारकं, द्युमत्, प्रेक्षणं, रूपेन्द्रियं, विलोचनं, वीक्षणम्।

नामम्[सम्पाद्यताम्]

  • लोचनं नाम नेत्रम्, नयनम्। लोचनम् इन्द्रियाणि सन्ति यैः वयं प्रकाशस्य दर्शनं कुर्मः।
  1. अक्षी
  2. नयनम्
  3. चक्षूः

अनुवादाः[सम्पाद्यताम्]

  1. मलयालम्-കണ്ണ്
  2. आङ्ग्लम्-eye
  3. हिन्दि-आँख
  4. तेलुगु-కన్ను
  5. कन्नड-ಕಣ್ಣು

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोचनम्, क्ली, (लोचतेऽनेनेति । लोच + ल्युट् ।) चक्षुः । इत्यमरः ॥ तस्य शुभाशुभलक्षणं यथा, -- “वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः । मार्जारलोचनैः पापो महात्मा मधुपिङ्गलैः ॥ क्रूराः केकरनेत्राश्च हरिणाक्षाः सकल्मषाः । जिह्मैश्च लोचनैः क्रूराः सेनान्यो गजलोचनाः ॥ गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः । नीलोत्पलाक्षा विद्वांसः सौभाग्यं श्यावचक्षु- षाम् ॥ स्यात् कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल । मण्डलाक्षाश्च पापाः स्युर्निःस्वाः स्युर्दीर्घ- लोचनाः ॥ दृक् स्निग्धा विपुला भोगे अल्पायुर्नाभि- रुन्नता । विशालोन्नता सुखिनो दरिद्रा विषमभ्रुवः ॥” इति गारुडे ६५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=लोचनम्&oldid=506938" इत्यस्माद् प्रतिप्राप्तम्