लोध्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोध्रः, पुं, (रुणद्धीति । रुध + बाहुलकात् रन् । रस्य लः ।) लोधवृक्षः । (यथा, शिशुपाल- वधे । ९ । ४६ । “अधरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः । नवमञ्जनं नयनपङ्कजयो- र्विभिदे न शङ्खनिहितात् पयसः ॥”) तत्पर्य्यायः । गालवः २ शावरः ३ तिरीटः ४ तिल्वः ५ मार्जनः ६ । इत्यमरः ॥ षट् लोध्र- मात्रे लोध इति ख्याते । षट् श्वेतलोध्र इति सुभूतिः ॥ आद्यपादः श्वेतलोध्रे शेषो रक्तलोध्र इति स्वामी ॥ तस्य पर्य्यायान्तरं यथा । लोध्रः ७ भिल्लतरुः ८ तिल्वकः ९ काण्डकीलकः १० लोध्रकवृक्षः ११ शम्बरः १२ हस्तिरोध्रकः १३ तिलकः १४ काण्डनीलकः १५ हेमपुष्पकः १६ भिल्ली १७ शावरकः १८ । अस्य गुणाः । कषायत्वम् । शीतत्वम् । वातकफास्रनाशित्वम् । चक्षुष्यत्वम् । विषहृत्त्वम् । तत्र विशिष्टो वल्क- लोध्रकः । इति राजनिर्घण्टः ॥ अपि च । “लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा । द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः ॥ जीर्णपत्रो बृहत्पत्रः पट्टीलाक्षाप्रसादनः । लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत् । कषायो रक्तपित्तासृग्वातातीसारशोथहृत् ॥” इति भावप्रकाशः ॥ (तथा च । “तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटकः । तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्ज्जिताम् ॥ चूर्णयेत्तु त्रिधा कृत्वा द्बौ भागौ श्च्योतयेत्ततः । लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् ॥ भागं तं दशमूलस्य पुनः क्वाथेन भावयेत् । शुष्कं चूर्णं पुनः कृत्वा तत ऊर्द्धं प्रयोजयेत् ॥ दधितक्रसुरामण्डमूत्रैर्वदरशीधुना । रसेनामलकानां वा ततः पाणितलं पिबेत् ॥” “सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत् ॥” इति चरके कल्पस्थाने नवमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोध्र पुं।

श्वेतलोध्रः

समानार्थक:गालव,शाबर,लोध्र,तिरीट,तिल्व,मार्जन

2।4।33।1।3

गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ। आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोध्र¦ m. (-ध्रः) A tree, the bark of which is used in dyeing, (Sym- plocos racemosa.) E. रुध् to hinder, aff. रन्, and ल substituted for र |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोध्र m. = रोध्र, Symplocos Racemosa MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=लोध्र&oldid=231343" इत्यस्माद् प्रतिप्राप्तम्