लोपामुद्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपामुद्रा, स्त्री, अगस्त्यमुनिभार्य्या । इत्यमरः ॥ लोपयति योषितां रूपाभिधानमिति लोपा पचाद्यन् आमुद्रयति स्रष्टुः सृष्टिमिति आमुद्रा अन् ततः कर्म्मधारयः । किंवा न मुदं राति अमुद्रा पतिशुश्रूषाया लोपे अमुद्रा लोपा- मुद्रा । लोपा च । “लोपामुद्रा तु वैदर्भी लोपा स्त्री कुम्भजन्मनः ॥” इति कण्ठभूषणम् । इति भरतः ॥ * ॥ अस्या अर्घ्यदानप्रसङ्गेन अगस्त्यार्घ्यदानं लिख्यते । अगस्त्यार्घ्यदानन्तु सौरेण सिंहराशौ विधानात् । यथा, ब्रह्मवैवर्त्ते । “अप्राप्ते भास्करे कन्यां शेषभूतैस्त्रिभिर्दिनैः । अर्घ्यं दद्युरगस्त्याय गौडदेशनिवासिनः ॥” नारसिंहे । “शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम् । मन्त्रेणानेन वै दद्याद्दक्षिणाशामुखस्थितः ॥ काशपुष्पप्रतीकाश अग्निमारुतसम्भव । मित्रावरुणयोः पुत्त्र कुम्भयोने नमोऽस्तु ते ॥” प्रार्थनन्तु । “आतापिर्भक्षितो येन वातापिश्च महासुरः । समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ॥” गन्धादिकन्तु अगस्त्याय नम इत्यनेन देयं विशे षानुद्देशो सामान्यतः प्राप्तत्वात् । दक्षिणाशामुखस्थित इति गन्धादावपि प्रयो- गाङ्गकर्त्तृधर्म्मत्वादिति रत्नाकरः ॥ * ॥ तत्पत्न्यर्घ्यदानमन्त्रस्तु । “लोपामुद्रे महाभागे राजपुत्त्रि पतिव्रते । गृहाणार्घ्यं मया दत्तं मैत्रावरुणिवल्लभे ॥” इति मलमासतत्त्वम् ॥ (अस्या जन्मादिविवरणन्तु महाभारते वन- पर्व्वणि ९६ अध्यायमारभ्य द्रष्टव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपामुद्रा स्त्री।

लोपामुद्रा

समानार्थक:लोपामुद्रा

1।3।20।2।2

ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः। मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी॥

पति : अगस्त्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपामुद्रा¦ स्त्री मुदं राति रा--क कर्म॰। अगस्त्यमुनि-पत्न्याम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपामुद्रा¦ f. (-द्रा) The wife of the saint AGASTYA and daughter of the king of Vidarbha. It was for her that the saint went out to acquire riches and destroyed VA4TA4PI and ILVALA in the attempt. E. लोप losing, (reputation,) अमुद्रा sad, not happy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपामुद्रा/ लोपा-मुद्रा f. N. of the reputed wife of the sage अगस्त्य(she is said to have been formed by the sage himself and then secretly introduced into the palace of the king of विदर्भ, where she grew up as his daughter ; she asked her husband to acquire immense riches ; so he went to the rich demon इल्वल, and having conquered him , satisfied his wife with his wealth ; she is considered as the authoress of RV. i , 179 , 4 ) RV. MBh. Hariv. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--consort of Agastya; a ब्रह्मवादिनी. Br. II. ३३. १९; IV. १०. ७८; वा. १०८. ५५.
(II)--is ह्रादि. Br. IV. ३८. 9-१०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LOPĀMUDRĀ : Wife of Agastya. (For details see under Agastya).


_______________________________
*2nd word in left half of page 458 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लोपामुद्रा&oldid=436551" इत्यस्माद् प्रतिप्राप्तम्