वंशः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वंशः, पुं, (वमति उद्गिरति पुरुषान् वन्यते इति वा । टु वम उद्गिरणे इति धातोर्यद्वा वन शब्दे इति धातोर्बाहुलकात् शः । यद्बा, वष्टि उश्यते इति वा । वशंकान्तौ + अच् घञ् वा । ततो नुम् ।) पुत्त्रपौत्त्रादिः । तत्पर्य्यायः । सन्ततिः २ गोत्रम् ३ जननम् ४ कुलम् ५ अभिजनः ६ अन्वयः ७ अन्ववायः ८ सन्तानः ९ । इत्यमरः । २ । ७ । १ ॥ निघनम् १० जातिः ११ । इति जटाधरः ॥ कुलञ्च विद्यया जन्मना वा प्राणिनामेकलक्षणः सन्तानो वंश इति जयादित्यः । धनेन विद्यया वा ख्यातस्या- पत्यधारा वंश इति सुभूः । वमति उद्गिरति पूर्ब्बपुरुषान् वंशः नाम्नीति शः । इत्यमर- टीकायां भरतः ॥ * ॥ (यथा, रघुः । १ । २ । “क्व भूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥” पुत्त्रः । यथा, भागवते । ९ । २ । १७ । “नृपस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः ॥”) तृणजातिविशेषः । वा~श इति भाषा । तत्- पर्य्यायः । त्वक्सारः २ कर्म्मारः ३ त्वचिसारः ४ तृणध्वजः ५ शतपर्व्वा ६ यवफलः ७ वेणुः ८ मस्करः ९ तेजनः १० । इत्यमरः । २ । ४ । ६० ॥ किष्कुपर्व्वा ११ । इति जटाधरः ॥ वम्भः १२ । इति शब्दरत्नावली ॥ तृणकेतुकः १३ कण्टालुः १४ कण्टकी १५ महाबलः १६ दृढ- ग्रन्थिः १७ दृढपत्रः १८ धनुर्द्रुमः १९ धानुष्यः २० दृढकाण्डः २१ ॥ (यथा, ऋतुसंहारे । १ । २५ । “ध्वनति पवनविद्धः पर्व्वतानां दरीषु स्फुटति पटुनिनादः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन क्षपयति मृगयूथं प्राप्तलग्नो दवाग्निः ॥”) अस्य गुणाः । अम्लत्वम् । कषायत्वम् । किञ्चित्तिक्तत्वम् । शीतलत्वम् । मूत्रकृच्छ्र- प्रमेहार्शःपित्तदाहास्रनाशित्वञ्च । इति राज- निर्घण्टः ॥ * ॥ अपि च । “वंशः सरो हिमः स्वादुः कषायो वस्ति- शोधनः । छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् ॥ * ॥ तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः । कषायः कफकृत् स्वादुर्व्विदाही वातपित्तलः ॥ तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः । वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः ॥” इति भावप्रकाशः ॥ * ॥ (गृहोर्द्धकाष्ठम् । यथा, -- “वंशः पृष्ठास्थ्नि गेहोर्द्ध्वकाष्ठे वेणौ गणे कुले ॥” इति रघुटीकायां मल्लिनाथधृतकेशवः । ७ । ३९ ॥) पृष्ठावयवः । पिठेर दोडा इति भाषा ॥ (यथा, भागवते । ११ । ८ । ३३ । “यदस्थिभिर्निर्म्मितवंशवंश्य- स्थूनं त्वचा रोमनखैः पिनद्धम् ॥”) वर्गः । इति मेदिनी । शे, १३ ॥ (यथा, रघुः । ७ । ३९ । “उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ॥”) वाद्यभाण्डविशेषः । इति धरणिः ॥ वा~शी इति भाषा ॥ (यथा, रघुः । २ । १२ । “स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चै- रुद्गीयमानं वनदेवताभिः ॥” विवृतिरस्य वंशीशब्दे द्रष्टव्या ॥) इक्षुः । सालवृक्षः । इति राजनिर्घण्टः ॥ (प्राधागर्भ- सम्भूताप्सरोविशेषे, स्त्री । यथा, महाभारते । १ । ६५ । ४६ । “अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् । अनूपां सुभगां भासीमिति प्राधा व्यजायत ॥”)
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वंशः [vaṃśḥ], [वमति उद्गिरति वम्-श तस्य नेत्वम् Uṇ.4.116]
A bamboo; धनुर्वशविशुद्धो$पि निर्गुणः किं करिष्यति H. Pr.23; वंशभवो गुणवानपि संगविशेषेण पूज्यते पुरुषः Bv.1.8 (where वंश has sense 2 also); Me.81.
A race, family, dynasty, lineage; स जातो येन जातेन याति वंशः समुन्नतिम् H.2; सूर्यप्रभवो वंशः R.1.2. &c.; see वंशकर, वंशस्थिति &c.
A shaft.
A flute, pipe, reed-pipe; कूजद्भिरापादितवंशकृत्यम् R.2.12.
A collection, assemblage, multitude (usually of similar things); सान्द्रीकृतः स्यन्दनवंशचक्रैः R.7.39.
A cross-beam; यदस्थिभिर्निर्मित- वंशवंश्यस्थूणं त्वचा रोमनखैः पिनद्धम् Bhāg.11.8.33.
A joint (in a bamboo).
A sort of sugar-cane.
The back-bone.
The Śāla tree.
A particular measure of length (equal to ten hastas).
The central projecting part of a sabre.
Bamboo-manna.
Offspring.
A son.
A particular musical note.
Pride, arrogance.
Comp. अग्रम्, अङ्कुरः the tip or end of a bamboo-cane.
the shoot of a bamboo. -अनुकीर्तनम् genealogy. -अनुक्रमः genealogy.-अनुचरितम् the history of a dynasty or family.-आगत a. inherited. -आवली a pedigree, genealogy.-आह्वः bamboo-manna. -कठिनः a thicket of bamboos.-कफम् cottony seeds floating in the air. -कर a.
founding a family.
perpetuating a race; वंशस्थितिं