वंशपत्रपतितम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशपत्रपतितम्, क्ली, सप्तदशाक्षरपादच्छन्दो- विशेषः । यथा, -- “दिङ्मुनिवंशपत्रपतितं भ र न भ न ल गैः ॥” उदाहरणम् । “नूतनवंशपत्रपतितं रजनिजललवं पश्य मुकुन्द ! मौक्तिकमिवोत्तममरकतगम् । एष च तं चकोरनिकरः प्रपिबति मुदितो वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥” वंशपत्रचरितेति केचित् । वंशदलमिति शम्भौ । इति छन्दोमञ्जरी ॥

"https://sa.wiktionary.org/w/index.php?title=वंशपत्रपतितम्&oldid=163269" इत्यस्माद् प्रतिप्राप्तम्