वंशानुचरितम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशानुचरितम्, क्ली, (वंशस्य अनुचरितम् ।) वंश- चरित्रवर्णनम् । तत्तु पुराणस्य पञ्चलक्षणान्त- र्गतलक्षणविशेषः । यथा, शब्दरत्नावल्याम् । “सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुरितञ्चेति पुराणं पञ्चलक्षणम् ॥” (यथा, भागवते । ९ । १ । ४ । “तेषां वंशं पृथग्ब्रह्मन् ! वंशानुचरितानि च । कीर्त्तयस्व महाभाग ! नित्यं शुश्रूषतां हि नः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वंशानुचरितम्&oldid=163287" इत्यस्माद् प्रतिप्राप्तम्