वक्तव्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्यः, त्रि, (ब्रू वच् वा + तव्यः ।) कुत्सितः । हीनः । (यथा, मनुः । ८ । ६६ । “नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्म्मकृत् ॥”) वचनार्हः । इति मेदिनी । ये, १०३ ॥ (यथा, महाभारते । १४ । ७६ । २३ । “वक्तव्याश्चापि राजानः सर्व्वे सह सुहृज्जनैः । युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥” वच् + भावे तव्य ।) वचने, क्ली ॥

"https://sa.wiktionary.org/w/index.php?title=वक्तव्यः&oldid=163299" इत्यस्माद् प्रतिप्राप्तम्