वक्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ता, [ऋ] त्रि, (वच् + तृच् ।) योवक्तुं जानाति सः । इति भरतः ॥ औचित्यात् बहु विशिष्टं वदति । इति मुकुटः ॥ (यथा, हितोपदेशे । “भद्रं कृतं कृतं मौनं कोकिलैर्ज्जलदागमे । दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ॥”) तत्पर्य्यायः । वदः २ वदावदः ३ । इत्यमरः । ३ । १ । २५ ॥ वदान्यः ४ वप्ता ५ । इति जटा- धरः ॥ सुष्ठुवक्ता । इति भरतः ॥ बहुभाषी । इत्येके । तत्पर्य्यायः । वाचोयुक्तिपटुः २ वाग्मी ३ वावदूकः ४ । इत्यमरः ॥ वचक्नः ५ सुवचाः ६ प्रवाक् ७ । इति जटाधरः ॥ पण्डितः । इति मेदिनी । ते, ५३ ॥

"https://sa.wiktionary.org/w/index.php?title=वक्ता&oldid=163300" इत्यस्माद् प्रतिप्राप्तम्