वक्रोक्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वक्रोक्तिः, स्त्री, (वक्रा कुटिला उक्तिः ।) काकूक्तिः । यथा, कामधेनुकल्पतरुधृतब्रह्म- पुराणम् । “अथ वृत्ते वृषोत्सर्गे दाता वक्रोक्तिभिः पदैः । ब्राह्मणानाह यत् किञ्चित् मयोत्सृष्टन्तु निर्ज्जने ॥ तत् कश्चिदन्यो न नयेन्न विभाज्यं यथाक्रमम् । न बाह्यं न च तत् क्षीरं पातव्यं केनचित् क्वचित् ॥” कृत्यप्रदीपेऽप्येवम् । वक्रोक्तिभिः काकूक्तिभिः । इति शुद्धितत्त्वम् ॥ * ॥ कुटिलोक्तिः । यथा, “वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः सभां जल्पन्नल्पमतिः स्मयात् पटुवटुर्भ्रूभङ्गवक्रो- क्तिभिः । ह्रीतः सन्नुपहासमेति गणको गोलानभिज्ञस्तथा ज्योतिर्व्वित्सदसि प्रगल् भगणकः प्रश्नप्रपञ्चो- क्तिभिः ॥” इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥ (वक्रा अर्थान्तरग्रहणेन कुटिला उक्तिः । शब्दालङ्कारप्रभेदः । तल्लक्षणादिकं यथा, साहित्यदर्पणे दशमपरिच्छेदे । “अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद् यदि । अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । क्रमे- णोदाहरणं यथा, -- “के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः । वामा यूयमहो विडम्बरसिकः कीदृक् स्मरो वर्त्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद् भ्रमः ॥” अत्र विशेषपदस्य विः पक्षी शेषो नाग इति अर्थद्वययोगात् सभङ्गः श्लेषः । अन्यत्र तु अभङ्गः । “काले कोकिलवाचाले सहकारमनोहरे । कृतागसः परित्यागात् तस्याश्चेतो न दूयते ॥” अत्र कयाचित् सख्या निषेधार्थे नियुक्तो नञ् अन्यया काक्वा दूयत एवेति विध्यर्थे घटितः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वक्रोक्ति¦ स्त्री कर्म॰।
१ कुटिलोक्तौ
“अन्यस्यान्यार्थकं वाक्य-मन्यथा योजयेद्यदि। अन्यः श्लेषेण काक्का वा सावक्रोक्तिस्ततो द्विधा” सा॰ द॰ उक्ते
२ अर्थालङ्कारभेदे
३ काकुवचने च।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वक्रोक्ति¦ f. (-क्तिः)
1. Equivoque, evasion, pun, the covert expression of something else than the words used naturally imply, either from the manner in which they are uttered, or some other sense of which they are susceptible.
2. Hint, insinuation.
3. Sarcasm. It is thus defined in Sa4hityadarpana:-- “अन्यस्यान्यार्थकं वाक्यमन्यथायोजयेद्यदि | अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ||” E. वक्र crooked, dishonest, and उक्ति speech.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वक्रोक्ति/ वक्रो f. indirect mode of expression Kull. on Mn. iii , 133
वक्रोक्ति/ वक्रो f. a figure of speech consisting in the use of evasive speech or reply (either by means of a pun , or by an affected change of tone e.g. Mudr. i , 1 ) Kpr.