वगलामुखी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वगलामुखी स्त्री, दशमहाविद्यान्तर्गतदेवी- विशेषः । तदुक्तं तन्त्रान्तरे । “ब्रह्मास्त्रं संप्रवक्ष्यामि सद्यःप्रत्ययकारकम् । साधकानां हितार्थाय स्तम्भनाय च वैरि- णाम् ॥ यस्याः स्मरणमात्रेण पवनोऽपि स्थिरायते । प्रणवं स्थिरमायाञ्च ततश्च वगलामुखि ॥ तदन्ते सर्व्वदुष्टानां ततो वाचं मुखं पदम् ॥ स्तम्भयेति ततो जिह्वां कीलयेति पदद्बयम् ॥ बुद्धिं नाशय पश्चात्तु स्थिरमायां समालिखेत् । लिखेच्च पुनरोङ्कारं स्वाहेति पदमन्ततः ॥ षटत्रिंशदक्षरी विद्या सर्व्वसम्पत्करी मता ॥” स्थिरमायां ह्ली~ । तथा च । “वह्रिहीनेन्द्रमायायुक् स्थिरमाया प्रकीर्त्तिता ॥ ओ~ ह्ली~ वगलामुखी सर्व्वदुष्टानां वाचं मुखं स्तम्भय जिह्वां कीलय कीलय बुद्धिं नाशय ह्ली~ ओ~ स्वाहा ॥ * ॥ तन्त्रान्तरे । “वह्रिहीनेन्द्रमायायुक् वगलामुखि सर्व्वयुक् । दुष्टानां वाचमित्युक्त्वा मुखं स्तम्भय कीर्त्तयेत् ॥ जिह्वां कीलय बुद्धिं तत् विनाशय पदं वदेत् । पुनर्ब्बीजं ततस्तारं वह्निजायावधिर्भवेत् । तारादिका चतुस्त्रिंशदक्षरा वगलामुखी ॥” ओ~ ह्ली~ वगलामुखि सर्व्वदुष्टानां वाचं मुखं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्ली~ ओ~ स्वाहा । इत्यपि मन्त्रान्तरम् ॥ * ॥ अनयोः पूजा । प्रातःकृत्यादिप्राणायामान्तं विधाय ऋष्यादिन्यासं कुर्य्यात् । यथा, शिरसि नारद- ऋषये नमः । मुखे तृष्टुप्छन्दसे नमः । हृदि

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वगलामुखी/ वगला--मुखी f. = -वगैआCat.

"https://sa.wiktionary.org/w/index.php?title=वगलामुखी&oldid=233834" इत्यस्माद् प्रतिप्राप्तम्