वङ्गम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्गम्, क्ली, (वङ्गतीति । वगि गतौ + अच् ।) धातु- विशेषः । रां इति भाषा ॥ तत्पर्य्यायः । त्रपुः २ स्वर्णजम् ३ नागजीवनम् ४ मृद्वङ्गम् ५ रङ्गम् ६ गुरुपत्रम् ७ पिच्चटम् ८ चक्रसंज्ञम् ९ तमरम् १० नागजम् ११ कस्तीरम् १२ आलीनकम् १३ सिंहलम् १४ । इति हेमचन्द्रः । ४ । १०८ ॥ स्ववेतम् १५ नागम् १६ त्रपु १७ । इति शब्द- रत्नावली ॥ अस्य गुणाः । तिक्तत्वम् । मधु- रत्वम् । भेदित्वम् । पाण्डत्वम् । कृमिवात- नाशित्वम् । लेखनत्वम् । किञ्चित्पित्तकारि- न्वञ्च । इति राजवल्लभः ॥ (अथ वङ्गस्य नाम- लक्षणगुणाः । “रक्तवङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि । खुरकं मिश्रकञ्चापि द्विविधं वङ्गमुच्यते ॥ उत्तमं खुरकं तत्र मिश्रकन्त्ववरं मतम् । रङ्गं लघु सरं रुक्षमुष्णं मेहकफक्रिमीन् ॥ निहन्ति पाण्डुं सश्वासं चक्षुष्य पित्तलं मनाक् । सिंहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहवर्गम् । देहस्य सौख्यं प्रवलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अस्य शोधनमारणविधिर्यथा, -- “वङ्गं चूर्णोदके स्विन्नं यामार्द्धेन विशुध्यति ॥” इति वङ्गशुद्धिः ॥ “वङ्गं सतालमर्कस्य पिष्ट्वा दुग्धेन संपुटेत् । शुष्काश्वत्थभवैर्व्वल्कैः सप्तधा भस्मतां नयेत् ॥” मतान्तरम् । “वङ्गं खर्परके कृत्वा चुल्ल्यां संस्थापयेत् सुधीः । द्रवीभूते पुनस्तस्मिन् चूर्ण्यान्येतानि दापयेत् ॥ प्रथमं रजनीचूर्णं द्वितीये च यमानिका । तृतीये जीरकञ्चैव ततश्चिञ्चात्वगुद्भवम् ॥ अश्वत्थवल्कलोत्थञ्च चूर्णं तत्र विनिः- क्षिपेत् । एवं विधानतो वङ्गं म्रियते नात्र संशयः ॥ वङ्गं तिक्ताम्लकं रुक्षं किञ्चिद्बातप्रकोपनम् । मेदःश्लेष्मामयघ्नञ्च क्रिमिघ्नं मेहनाशनम् ॥” इति वङ्गमारणम् । इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधिकारे ॥) अन्यद्रङ्गशब्दे द्रष्ट- व्यम् ॥ * ॥ सीसकम् । देशविशेषे पुं भूम्नि । इति मेदिनी । गे, २२ ॥ (एकवचनान्तोऽपि । यथा, महाभारते । १ । १०४ । ५० । “अङ्गस्याङ्गो भवेद्देशो वङ्गो वङ्गस्य च स्मृतः ॥”) स तु प्राचीदेशान्तर्गतदेशविशेषः । यथा, -- “अङ्गवङ्गा मद्गुरका अन्तर्गिरिवहिर्गिराः ॥” इत्युपक्रम्य । “शाल्वा मागधगोनर्द्दाः प्राच्यां जनपदाः स्मृताः ॥” इत्यन्तं मत्स्यपुराणवचनम् ॥ मतान्तरं यथा, -- “आग्नेय्योमङ्गवङ्गोपवङ्गत्रिपुरकोषलाः । कलिङ्गौढ्रान्ध्रकिष्किन्धाविदर्भशवरादयः ॥” इति ज्योतिस्तत्त्वधृतकूर्म्मचक्रवचनम् ॥ तस्य सीमा यथा, -- “रत्नाकरं समारभ्य ब्रह्मपुत्त्रान्तगं शिवे ! । वङ्गदेशो मया प्रोक्तः सर्व्वसिद्धिप्रदर्शकः ॥” इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥

"https://sa.wiktionary.org/w/index.php?title=वङ्गम्&oldid=504056" इत्यस्माद् प्रतिप्राप्तम्