वचा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचा, स्त्री, (वाचयतीति । वच् + णिच् + अच् । निपातनात् ह्रस्वः । यद्वा, अन्तर्भाविण्यर्थात् वचः अच् ।) औषधविशेषः । वच् इति भाषा । तत्पर्य्यायः । उग्रगन्धा २ षड्ग्रन्था ३ गोलोमी ४ शतपर्व्विका ५ । इत्यमरः । २ । ४ । १०२ ॥ तीक्ष्णा ६ जटिला ७ मङ्गल्या ८ विजया ९ उग्रा १० रक्षोघ्नी ११ । इति रत्नमाला ॥ वच्या १२ लोमशा १३ । इति जटाधरः ॥ भद्रा १४ । अस्या गुणाः । अतितीक्ष्णत्वम् । कटुत्वम् । उष्णत्वम् । कफामग्रन्थिशोफवात- ज्वरातिसारसादभूतनाशित्वम् । वान्तिकारि- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्व्विका । क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा ॥ वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् । विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ॥ अपस्मारकफोन्मादभूतजन्त्वनिलान् हरेत् ॥” अथ खुरासानी वचा । “पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा । हैमवत्युदिता तद्वत् शूलं हन्ति विशेषतः ॥” अथ महाभरी वचा । यस्या लोके कुलीजन इति नामान्तरम् । “सुगन्धाप्युग्रगन्धा च विशेषात् कफकासनुत् । सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी ॥” अपरा सुगन्धा स्थूलग्रन्थिर्यस्या लोके महाभरा इति नाम । “स्थूलग्रन्थिः सुगन्धान्या ततो हीनगुणा स्मृता ॥” अथ चोपचीनीति लोके प्रसिद्धा । तस्या गुणाः । “द्वीपान्तरवचा कट्वी तिक्तोष्णा वह्निदीप्तिकृत् । विवन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ॥ वातव्याधीनपस्मारमुन्मादं तनुवेदनाम् । व्यपोहति विशेषेण फिरङ्गामयनाशिनी ॥” इति भावप्रकाशः ॥ * ॥ अपरञ्च । “वचायुष्या वातकफतृष्णाघ्नी स्मृतिवर्द्धिनी ॥” इति राजवल्लभः ॥ * ॥ अन्यच्च । “अद्भिर्व्वा पयसाज्येन मासमेकन्तु सेविता । वचा कुर्य्यान्नरं प्राज्ञं श्रुतिधारणसंयुतम् ॥ चन्द्रसूर्य्यग्रहे पीतं पलमेकं पयोऽन्वितम् । वचायास्तत्क्षणं कुर्य्यान्महाप्रज्ञान्वितं नरम् ॥” इति गारुडे १९८ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचा स्त्री।

वचा

समानार्थक:वचा,उग्रगन्धा,षड्ग्रन्था,गोलोमी,शतपर्विका

2।4।102।2।1

दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि। वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचा¦ स्त्री वच--अच्। (वच) इति ख्याते द्रव्ये।
“वचोग्रगन्धा कदुका तिक्तोष्णा वान्तिवह्निकृत्। विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधनी। अपस्मार-कफोन्मादभूतजन्त्वनिलान् हरेत्”। (खुरासानीवचा)।
“पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सव। हैमवत्युदिता तद्वत् शूलं हन्ति विशेषतः। ” अथ (महा-भरी) वचा। यस्या लोके (कुलीवच इति) नामान्तरम्।
“सुगन्धाप्यग्रगन्धा च विशेषात् कफकासनुत्। सुस्वरत्व-करी रुच्या हृत्कण्ठमुखशोधिनी”। अपरा सुगन्धास्थूलग्रन्थिर्यस्या लोके महाभरा इति नास।
“स्थूल-ग्रन्थिः सुगन्धान्या ततो हीनगुणा स्मृता”। (सोप-चीनीति) लोके प्रसिद्धा। तस्या गुणाः
“द्वीपा-न्तरवचा कद्वी तिक्तोष्णा वह्निदीप्तिकृत्। विवन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधनी। वातव्याधीनपस्मार-मुन्मादत्नुवेदनाम्। व्यपोहति विशेषेण फिरङ्गामयनाशिनी” भावप्र॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचा f. a kind of talking bird , Turdus Salica(= सारिका) L. Page912,3

वचा f. a kind of aromatic root( accord. to some = Acorus Colamus) Hcar.

"https://sa.wiktionary.org/w/index.php?title=वचा&oldid=234245" इत्यस्माद् प्रतिप्राप्तम्