वटिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वटिका, स्त्री, (वटिरेव । स्वार्थे कन् । टाप् ।) वटी । वडी इति भाषा । तत्पर्य्यायः । निस्तली २ । इति शब्दचन्द्रिका ॥ अथ वटिकाविधिः । “वटका अथ कथ्यन्ते तन्नामा वटिका वटी । मोदको गुटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥ लेहवत् साध्यते वह्रौ गुडो वा शर्कराथवा । गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ॥” तत्र वह्निसिद्धे गुडादौ । “कुर्य्यादवह्रिसिद्धेन क्वचिद्गुग्गुलुना वटीम् । द्रवेण मधुना वापि गुटिकां कारयेद्बुधः ॥ सिता चतुर्गुणा देया वटीषु द्बिगुणो गुडः । चूर्णे चूर्णसमः कार्य्यो गुग्गुलुर्मधु तत्समम् ॥” तत्समं चूर्णसमम् । “द्रवन्तु द्विगुणं देयं मोदकेषु भिषग्वरैः ॥” द्रवं चतुर्गुणमिति वा पाठः । द्रवं द्रवरूपं द्रव्यम् । “कर्षप्रमाणा तन्मांत्रा बलं दृष्ट्वा प्रयुज्यते । बलमिति कालादेरप्युपलक्षणम् । इति भाव- प्रकाशः ॥ * ॥ व्यञ्जनोपयोगिद्रव्यम् । अस्यापि वडी इति भाषा । यथा, -- “माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृता । तया विरचिता वस्त्रे वटिकाः साधु शोषिताः ॥ तालितास्तप्ततैले ता अथवा सुप्रलेहिताः । घटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम् ॥ कुष्माण्डकवटी ज्ञेया पूर्ब्बोक्तवटीकागुणा । विशेषात् पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ॥ मुद्गानां वटिका तद्वद्रचिता साधिता तथा । पथ्या रुच्या ततो लघ्वी मुद्गसूपगुणा स्मृता ॥” इति भावप्रकाशः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वटिका [vaṭikā], [वट्-इन् Uṇ.4.128]

A pill.

A chessman.

A kind of cake or bread (Mar. आंबोळी) made of rice and Māṣa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वटिका f. id. Pan5cat. ( B. ) Lalit.

वटिका f. a pawn (at chess) L.

वटिका f. See. under वटक.

"https://sa.wiktionary.org/w/index.php?title=वटिका&oldid=235266" इत्यस्माद् प्रतिप्राप्तम्