वन्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दनम्, क्ली, (वन्दतेऽनेनेति । वन्द + करणे ल्युट् ।) वदनम् । इति शब्दचन्द्रिका ॥ (वन्द + भावे ल्युट् ।) प्रणामः । स तु षोडशधाभक्त्यन्तर्गत- भक्तिविशेषः । यथा । पाद्मोत्तरखण्डे शिव- पार्व्वतीसंवादे । “आद्यं तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः । धारणञ्चोर्द्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥ अर्च्चनञ्च जपो ध्यानं तन्नामस्मरणं तथा । कोर्त्तनं श्रवणञ्चैव वन्दनं पादसेवनम् ॥ तत्पादोदकसेवा च तन्निवेदितभोजनम् । तदीयानाञ्च संसेवा द्वादशीब्रतनिष्ठता ॥ तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः । भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये ॥” इति हरिभक्तिविलासे ११ विलासः ॥ षोडशोपचारपूजान्तर्गतशेषोपचारः । यथा, -- “आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् । मधुपर्काचमनस्नानवसनाभरणानि च । गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ॥” इत्याह्रिकतत्त्वे आचारचिन्तामणिः ॥ * ॥ अथ वन्दनम् । “प्रणमेदथ साष्टाङ्गं तन्मुद्राञ्च प्रदर्शयेत् । किञ्चान्यत्र । “अग्रे पृष्ठे धामभागे समीपे गर्भमन्दिरे । जपहोमनमस्कारान् न कुर्य्यात् केशवालये ॥” अपि च । “सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः । उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम् ॥ ततः प्रदक्षिणां कुर्य्यात् भक्त्या भगवतो हरेः । नामानि कीर्त्तयन् शक्तौ ताञ्च साष्टाङ्गवन्द- नाम् ॥” इति हरिभक्तिविलासे ८ विलास ॥ * ॥ अन्यत् नमस्कारशब्दे प्रणामशब्दे च द्रष्टव्यम् ॥ (विषविशेषः । यथा, ऋग्वेदे । ७ । ५१ । २ । “यद्विजामन् परुषि वन्दनं भुवत् ॥” असुरः । रक्षोविशेषः । इति ऋग्भाष्ये सायणः । ७ । २१ । ५ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दन¦ न॰ वदि--ल्युट्।

१ स्तवने

२ प्रणामे च। युच्। वन्दनाप्यत्र स्त्री।

३ वदने न॰ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दन¦ n. (-नं)
1. The face or mouth.
2. Obeisance to a Bra4hmana or superior by touching the feet, &c. f. (-नी)
1. Reverence, worship, adoring.
2. Begging, soliciting, asking.
3. A drug for reviving the dead. f. (-ना) Praise, praising, especially the gods or great men. E. वदि to praise, aff. ल्युट् or युच्, fem. aff. ङीष् or टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दनम् [vandanam], [वन्द्-ल्युट्]

Salutation, obeisance.

Reverence, adoration.

Obeisance paid to a Brāhmaṇa &c. (by touching his feet).

Praising, extolling.

A cutaneous eruption, scrofula.

ना Worship, adoration.

नी Worship, adoration.

Solicitation.

A drug for reviving the dead.-Comp. -माला, -मालिका a garland suspended across gateways.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दन m. N. of a ऋषि(who was cast into a well , along with रेभ, by the असुरs , and rescued by the अश्विन्s) RV.

वन्दन n. the act of praising , praise RV.

वन्दन n. reverence ( esp. obeisance to a ब्रह्मन्or superior by touching the feet etc. ) , worship , adoration Mn. MBh. etc.

वन्दन n. a parasitical plant AV. Bhpr.

वन्दन n. a disease attacking the limbs or joints , cutaneous eruption , scrofula (also personified as a demon) RV.

वन्दन n. = वदनL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VANDANA : A hermit mentioned in Ṛgveda. Once this hermit was pushed into a well by Asuras. But he was saved by the Aśvinidevas. (Ṛgveda, Maṇḍala 1, Anuvāka 1, Sūkta 116).


_______________________________
*14th word in right half of page 825 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Vandana is mentioned in the Rigveda[१] as the name of a disease, apparently some sort of eruption spreading over the body.

2. Vandana is the name of a protégé of the Aśvins in the Rigveda.[२]

  1. vii. 50, 2 Cf. 21, 5;
    Av. vii. 113, 2;
    tṛṣṭa-vandanā, ‘having a rough eruption,’ vii. 113, 1;
    Zimmer, Altindisches Leben, 391;
    Bloomfield, Hymns of the Atharvaveda, 564, 565 Whitney. Translation of the Atharvaveda, 469.
  2. i. 112, 5;
    116, 11;
    117, 5;
    118, 8;
    x. 39, 8. Cf. Baunack, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 50, 263 et seq.;
    Oldenberg, ṚgvedaNoten, 1, 109.
"https://sa.wiktionary.org/w/index.php?title=वन्दन&oldid=474487" इत्यस्माद् प्रतिप्राप्तम्