वरः

विकिशब्दकोशः तः

वरः - Boon

अनुवादम्[सम्पाद्यताम्]

  • वरः नाम प्रसादः, दानं, प्रदानं, वरदानं, उपकृतं, हितं, अनुग्रहः
  • Granting boons - वरदः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरः, पुं, (वृ + अप् ।) वरणम् । तत्पर्य्यायः । वृतिः २ । इत्यमरः । ३ । २ । ८ ॥ द्वे वेष्टने । प्राथेनाविशेषे इत्यन्ये । इति भरतः ॥ देवाद्- वृवः । देवसकाशात् याचितः । उक्तञ्च । “तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः ॥” इति च भरतः ॥ जामाता । (यथा, रघुः । ६ । ८६ । “प्रमुदितवरपक्षमेकतस्तत् क्षितिपतिमण्डलमन्यतो वितानम् ॥”) षिड्गः । इति मेदिनी । रे, ६२ ॥ गुल्गुलुः । इति शब्दरत्नावली ॥ पतिः । इति हेमचन्द्रः । ३ । १८० ॥ (निग्रहः । यथा, ऋग्वेदे । १ । १४३ । ५ । “न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ॥” “योऽग्निर्वराय वरणाय निग्रहाय शक्तो न भवति ॥” इति तद्भाष्ये सायणः ॥)

वरः, त्रि, (वृ + अप् ।) श्रेष्ठः । इत्यमरः । ३ । ३ । १७२ ॥ (यथा, विष्णुपुराणे । १ । ११ । १८ । “राजासनं राजच्छत्रं वराश्वा वरवारणाः । यस्य पुण्यानि तस्यैते मत्वैतत् शाम्य पुत्त्रक ॥”)

"https://sa.wiktionary.org/w/index.php?title=वरः&oldid=506949" इत्यस्माद् प्रतिप्राप्तम्