वरवर्णिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरवर्णिनी, स्त्री, (वरः श्रेष्ठो वर्णः प्रशस्तः पीता- दिर्वास्त्यस्या इति । वरवर्ण + इनिः । ङीप् ।) अत्युत्तमा स्त्री । तत्पर्य्यायः । वरारोहा २ मत्तकामिनी ३ उत्तमा ४ । इत्यमरः । २ । ६ । ४ ॥ मत्तकाशिनी ५ । इति भरतः ॥ (यथा, विष्णुपुराणे । १ । १५ । ७ । “रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यत् जानता पूर्ब्बं मया गोभिर्व्विवर्द्धिता ॥”) लाक्षा । हरिद्रा । रोचना । फलिनी । साध्वी स्त्री । इति मेदिनी । ने, २४३ । गौरी ॥ (यथा, महाभारते । ६ । २२ । २१ । “भद्रकालि ! नमस्तुभ्यं महाकालि नमोऽस्तु ते । चण्डि ! चण्डे ! नमस्तुभ्यं तारिणि ! वर- वर्णिनि ! ॥”) सरस्वती । लक्ष्मीः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरवर्णिनी स्त्री।

अत्यन्तोत्कृष्टस्त्री

समानार्थक:वरारोहा,मत्तकाशिनी,उत्तमा,वरवर्णिनी

2।6।4।2।4

सुन्दरी रमणी रामा कोपना सैव भामिनी। वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वरवर्णिनी स्त्री।

हरिद्रा

समानार्थक:निशाह्वा,काञ्चनी,पीता,हरिद्रा,वरवर्णिनी

2।9।41।1।5

निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी। सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरवर्णिनी¦ स्त्री वरः श्रेष्ठो वर्णः प्रशंसाऽस्त्यस्याः इति। उत्तमस्त्रियाम् अमरः।

२ लाक्षायां

३ हरिद्रायां

४ रो-चनायां

५ फलिन्यां

६ साध्व्यां स्त्रियां मेदि॰।

७ गौर्य्यां

८ लक्ष्म्यां

९ पार्वत्यां च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरवर्णिनी¦ f. (-नी)
1. An excellent woman.
2. A virtuous woman.
3. A woman in general.
4. Turmeric.
5. La4c.
6. A brownish yellow pigment; also रोचना and गोरोचना।
7. A plant, commonly Priyangu.
8. A name of GAURI
4.
9. SARASWATI
4.
10. LAKSHMI
4. E. वर best, वर्ण class or colour, aff. इनि and ङीष् |

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--R. one of the seven rivers in शिवपुरम्. वा. १०१. २४३.

"https://sa.wiktionary.org/w/index.php?title=वरवर्णिनी&oldid=504124" इत्यस्माद् प्रतिप्राप्तम्