वर्णः

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णः, पुं, (व्रियते इति । वृ + “कॄवृजॄषिद्रुगुपन्य- निस्वपिभ्यो नित् ।” उणा० ३ । १० । इति नः । स च नित् ।) जातिः । सा च ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्च । एषामुत्पत्त्यादिर्यथा । यदा भगवान् पुरुषरूपेण सृष्टिं कृतवान् तदास्य शरीरात् चत्वारो वर्णा उत्पन्नाः । मुखतो ब्राह्मणाः बाहुतः क्षत्त्रियाः ऊरुतो वैश्याः पादतः शूद्रा जाताः । एतेषां वर्णानां धर्म्माः शास्त्रेषु निरूपिताः सन्ति । तत्र ब्राह्मणधर्म्मा उच्यन्ते । अध्ययनं यजनं दानञ्चेति । जीविका- स्त्रयः अध्यापनं याजनं प्रतिग्रहश्चेति । १ । क्षत्त्रियस्य त्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । प्रजानां रक्षणं जीविका । २ । वैश्यस्य त्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । चतस्रो जीविकाः । कृषिः गोरक्षणं बाणिज्यं कुशीद- ञ्चेति । ३ । शूद्रस्य तु ब्रह्मक्षत्त्रविशां शुश्रूषा धर्म्मो जीविका च । ४ । ब्राह्मणा आश्रम- चतुष्टयवन्तो भवन्ति । ब्रह्मचारी गृहस्थः वानप्रस्थः सन्न्यासी च । तत्र उपनयनानन्तरं नियमं कृत्वा यो गुरोः सन्निधौ स्थित्वा साङ्ग- वेदाध्ययनं करोति स ब्रह्मचारीत्युच्यते । १ । साङ्गवेदाध्ययनं समाप्य यो दारपरिग्रहं कृत्वा स्वधर्म्माचरणं करोति स गृहस्थ उच्यते । २ । पुत्त्रमुत्पाद्य यो वनवासं कृत्वा अकृष्टपच्यफलादि भक्षयित्वा ईश्वराराधनं करोति स वानप्रस्थ उच्यते । ३ । यः सर्व्वं गृहादिकं त्यक्त्वा मुण्डित- मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्च विभ्रत् भिक्षावृत्तिर्निर्जने तीर्थे वा स्थित्वा केवल- मीश्वराराधनं करोति स सन्न्यासीत्युच्यते ॥ ४ ॥ क्षत्त्रियवैश्ययोस्तु प्रथमाश्रमत्रयं विहितम् । शूद्रस्यैक एव गृहाश्रमः । ईश्वराराधनन्तु सर्व्वेषां वर्णानामाश्रमाणाञ्च साधारणो धर्म्मः । तन्मध्ये यस्तु विष्णूपासकः स वैष्णव उच्यते । शिवोपासकः शैवः । दुर्गादिशक्त्युपासकः शाक्तः । सूर्य्योपासकः सौरः । गणेशोपासको गाणपत्य उच्यते । इति पुराणार्थप्रकाशः ॥ * ॥ अपि च । विवेकी धनपूत्त्रादौ वितृष्णः करुणः सदा । संसारं स्वप्नवद्बीक्ष्य क्षान्तः सन्तुष्टमानसः ॥ पत्रमूलफलाहारी जलाशी वायुभोजनः । निराहारोऽथवा शुद्धोऽहर्निशं तप आचरेत् । एवं कुर्व्वन् महाभाग ब्राह्मणः सिद्धिमाप्नुयात् ॥ चतुर्थमाश्रमं वक्ष्ये मुक्तिसोपानमेव हि । गुरोः पुरोधमासास्य भिक्षुः सन्न्यासधर्म्मवित् ॥ विचरेत् सकलां पृथ्वीं लब्धाशी शान्त उत्सुकः । योगाभ्यासरतो नित्यं धर्म्मसञ्चयतत्परः । धर्म्माधर्म्मविहीनो वा भिक्षुकः सिद्धिमा- प्नुयात् ॥” इति पाद्मे स्वर्गखण्डे २५ । २६ । २७ अध्यायाः ॥ * ॥ अन्यत् नारसिंहपुराणे ५९ अध्याये मार्कण्डेय- पुराणे मदालसोपाख्याने कूर्म्मपूराणे २ । ३ अध्याये च द्रष्टव्यम् ॥ * ॥ * ॥ गजचित्रकम्बलः । हातीर झुल् इति भाषा । तत्पर्य्यायः । प्रवेणी २ आस्तरणम् ३ परिस्तोमः ४ कुथः ५ कुथा ६ । इत्यमरः ॥ प्रवेणिः ७ परिष्टोमः ८ कुथम् ९ । इति भरतः ॥ शुक्लादिः । रङ् इति ख्यातः । स च बहुविधो यथा । श्वेतः १ पाण्डुः २ धूसरः ३ कृष्णः ४ पीतः ५ हरितः ६ रक्तः ७ शोणः ८ अरुणः ९ पाटलः १० श्यावः ११ धूम्रः १२ पिङ्गलः १३ कर्व्वुरः १४ । इति चामरः ॥ गर्भस्थबालकस्य षष्ठे मासि वर्णो भवति । इति सुखबोधः ॥ यशः । गुणः । स्तुतिः । इति मेदिनी । णे, २६ ॥ स्वर्णम् । व्रतम् । रूपम् । अक्षरम् । भेदः । गीतक्रमः । चित्रम् । तालविशेषः । अङ्गरागः । इति हेमचन्द्रः ॥

वर्णः, पुं, क्ली, (वर्ण्यते भिद्यते इति । वर्ण + घञ् ।) भेदः । (वर्ण्यते दीप्यतेऽनेनेति ।) वर्ण + घञ् ।) रूपम् । (वर्णयति । वर्ण + अच् ।) अक्षरम् । (वर्ण्यते रज्यते इति । वर्ण + घञ् ।) विलेपनम् । इति मेदिनी । णे, २६ ॥ * ॥ वर्णश्च द्विविधः । ध्वन्यात्मकः अक्षरात्मकश्च । अस्योत्पत्तिप्रकारो यथा, -- “अव्नैषद्यान्मुखश्रोत्रमार्गस्याविषदाक्षरम् । अप्यव्यक्तं प्रलपति यदा सा कुण्डली तदा । मूलाधारे विष्वणति सुषुम्नां वेष्टते मुहुः ॥” इति प्रपञ्चसारः ॥ अस्यार्थः । मुखश्रोत्रमार्गस्यावैषद्यात् अनैर्म्म- ल्याद्धेतोर्यदा सा कुण्डली अविषदाक्षरं अवि- ष्पष्टमक्षरं यत्राव्यक्ते ध्वनौ तं प्रलपति अर्थात् कलभाषणादिकं करोति तदा मूलाधारे विष्व- णति शब्दायते सुषुम्नाञ्च मुहुर्व्वेष्टते । इति तट्टीका ॥ * ॥ अस्य कुण्डलीस्वरूपत्वं यथा, -- “कुण्डलीभूतसर्पाणामङ्गश्रियमुपेयुषी । त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी ॥ द्विचत्वारिंशद्वर्णात्मा पञ्चाशद्वर्णरूपिणी । गुणिता सर्व्वगात्रेण कुण्डली परदेवता ॥ विश्वात्मनापबुद्धा सा सूते मन्त्रमयं जगत् । एकधा गुणिता शक्तिः सर्व्वविश्वप्रवर्त्तिनी ॥ वलान्तस्थाने नलान्त इति सर्व्वाङ्गस्थाने सर्व्वाग इति वा पाठः । क्षेत्रपालो महाक्षोभो मातृकान्तानलक्षयः । मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः । छायापुत्त्रश्च संघातो मलयः श्रीर्ललाटकः ॥” क्षः ॥ इति नन्दनभट्टाचार्य्यविरचितं वर्णाभिधानं समाप्तम् ॥

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णः [varṇḥ], [वर्ण्-अच् Uṇ.3.1]

A colour, hue; अन्तः- शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः Me.51.

A paint, dye, paint-colour; see वर्ण् (1).

Colour, complexion, beauty; विविक्तवर्णाभरणा सुखश्रुतिः Ki.14.3; त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे Me.48; R.8.42.

Look, countenance; मध्यस्थवर्ण इव दृश्यते Madhyamavyāyoga 1; किं त्वं शङ्कितवर्ण इव Chārudatta 4; अवदातिका परशङ्कितवर्णेव दृश्यते Pratimā 1.

A class of men, tribe, caste (especially applied to the four principal castes, ब्राह्मण, क्षत्रिय, वैश्य and शूद्र); वर्णानामानुपूर्व्येण Vārt; न कश्चिद्वर्णानामपथमपकृष्टो$पि भजते Ś.5. 1; R.5.19.

A class, race, tribe, kind, species; as in सवर्णम् अक्षरम्; ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् Mb.12. 188.1.

(a) A letter, character, sound; न मे वर्ण- विचारक्षमा दृष्टिः V.5; Ki.14.3. (b) A word, syllable; S. D.9.

Fame, glory, celebrity, renown; राजा प्रजा- रञ्जनलब्धवर्णः R.6.21.

A good quality, merit, virtue; त्रिवर्णा वर्णिता$स्माभिः किं भूयः श्रोतुमिच्छसि Bhāg.11.3.16.

Praise; स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः Śi.16. 29.

Dress, decoration.

Outward appearance, form, figure.

A cloak, mantle.

A covering, lid.

The order or arrangement of a subject in a song (गीतक्रम); अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत Kaṭh.1.28; उपात्तवर्णे चरिते पिनाकिनः Ku.5.56 'celebrated in song, made the subject of a song.'

The housings of an elephant.

A quality, property; जङ्गमानामसंख्येयाः स्थावराणां च जातयः । तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ Mb.12.188.9.

A religious observance.

An unknown quantity.

The number 'one'.

Application of perfumed unguents to the body.

Gold.

A musical mode. -र्णा Cajanus Indicus (Mar. तूर).

र्णम् Saffron.

A coloured unguent or perfume. -Comp. -अङ्का a pen. -अधिपः a planet presiding over a caste or class. -अनुप्रासः alliteration.

अन्तरम् another caste. ˚गमनम् the passing into another caste.

change of sound. -अपसदः an outcast.-अपेत a. devoid of any cast, outcast, degraded; वर्णा- प्रेतमविज्ञातं ...... कर्मभिः स्वैर्विभावयेत् Ms.1.57. -अवकृष्टः a Śūdra; अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी Mb.12.24.34.-अर्हः a kind of bean. -अवर a. inferior in caste.-आगमः the addition of a letter; भवेद्वर्णागमाद्धंसः Sk.-आत्मन् m. a word. -आश्रमाः the (four) castes and stages of life; वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे R.5.19. ˚गुरुः N. of Śiva. ˚धर्मः the duties of caste and order. -उदकम् coloured water; वर्णोदकैः काञ्चनशृङ्गमुक्तै- स्तमायताक्ष्यः प्रणयादसिञ्चन् R.16.7. -कविः N. of a son of Kubera. -कूपिका an ink-stand.

क्रमः the order of castes or colours.

alphabetical order or arrangement. -गत a.

coloured.

algebraical. -गुरुः a king, prince. -ग्रथणा a method (artificial) of writing verses.-चारकः a painter. -ज्येष्ठः a Brāhmaṇa. -तर्णकम्, -तर्णिका woollen cloth used as a mat. -तालः (in music) a kind of measure. -तूलिः, -तूलिका, -तूली f. a pencil, paint-brush. -द a. colouring. (-दम्) a kind of fragrant yellow wood. -दात्री turmeric. -दूतः a letter.-दूषक a. violating the distinctions of castes; यत्र त्वेते परिध्वंसा जायन्ते वर्णदूषकाः Ms.1.61. -धर्मः the peculiar duties of a caste. -नाथः the planetary regent of a caste.-पत्रम् a pallet. -परिचयः skill in song or music. -पातः the omission of a letter. -पात्रम् a paint-box. -पुष्पम् the flower of the globe-amaranth. -पुष्पकः the globeamaranth. -प्रकर्षः excellence of colour. -प्रसादनम् aloe-wood. -बुद्धिः the notion connected with particular letters or sounds. -भेदिनी millet. -मातृ f. a pen, pencil.-मातृका N. of Sarasvatī. -माला, -राशिः the alphabet.-रे(ले)खा, -लेखिका chalk. -वर्तिः, -वर्तिका f.

a paint-brush; फलकमादाय मणिसमुद्गकाद्वर्णवर्तिकामुद्धृत्य Dk.2.2.

a pencil. -वादिन् m. a panegyrist. -विक्रिया enmity against the castes. -विपर्ययः the substitution or change of letters; (भवेत्) सिंहो वर्णविपर्ययात् Sk. -विलासिनी turmeric.

विलोडकः a house-breaker.

a plagiarist (lit. word-stealer). -वृत्तम् a metre regulated by the number of syllables it contains (opp. मात्रावृत्त). -व्यव- -स्थितिः f. the institution of caste, caste-system. -शिक्षा instruction in letters. -श्रेष्ठः a Brāhmaṇa; वर्णश्रेष्ठो द्विजः पूज्यः H.4.21. -संयोगः marriage between persons of the same caste. -संसर्गः confusion of castes, marriage with members of other castes; Ms.8.172. -संहारः an assemblage of different castes.

संकरः confusion of castes through intermarriage; स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण- संकरः Bg.1.41.

mixture or blending of colours; चित्रेषु वर्णसंकरः K. (where both senses are intended); Śi.14.37. -संघातः, -समाम्नायः the alphabet. -स्थानम् an organ of utterance. -हीन a. outcast.

"https://sa.wiktionary.org/w/index.php?title=वर्णः&oldid=240064" इत्यस्माद् पुनः प्राप्तिः