वर्णसङ्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णसङ्करः, पुं, (वर्णतो ब्राह्मणादिभ्यः वर्णानां वा सङ्करो मिश्रणं यत्र ।) मिश्रितजातिः । तद्बिवरणं यथा, -- “बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः । ब्रह्मणो बाहुदेशाच्च जाताः क्षत्त्रियजातयः ॥ ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः । तासां सङ्करजातेन बभूवुर्व्वर्णसङ्कराः ॥ गोपनापितलीलाश्च तथा मोदकमूलवौ । ताम्बूलिपर्णकारौ च तथा बणिकजातयः ॥” लीलास्थाने भाला इति मूलवस्थाने कूवर इति च पाठः । “इत्येवमाद्या विप्रेन्द्र ! सच्छूद्राः परिकीर्त्तिताः । शूद्राविशोस्तु करणोऽम्बष्टो वैश्याद्विजन्मनोः ॥ विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः । ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः ॥ मालाकारः कर्म्मकारः शङ्खकारः कुविन्दकः । कुम्भकारः कंसकारः षडेते शिल्पिनां वराः ॥ सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च । पतितास्ते ब्रह्मशापादजात्या वर्णसङ्कराः ॥” क्षत्त्रियाज्जातमेवन्तु विद्याद्वैश्यात्तथैव च ॥ अनार्य्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया । ब्राह्मण्यामप्यनार्य्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत् ॥ जातो नार्य्यामनार्य्यायामार्य्यादार्य्यो भवेद्- गुणैः । जातोऽप्यनार्य्यादार्य्यायामनार्य्य इति निश्चयः ॥ तावुभावप्यसंस्कार्य्याविति धर्म्मो व्यवस्थितः । वैगुण्याज्जन्मनः पूर्ब्ब उत्तरः प्रतिलोमतः ॥ सुबीजञ्चैव सुक्षेत्रे जातं सम्पद्यते यथा । तथार्य्याज्जात आर्य्यायां सर्व्वं संस्कारमर्हति ॥ बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः । बीजक्षेत्रे तथैवान्ये तत्रेयन्तु व्यवस्थितिः ॥ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ यस्माद्बीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन् । पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते ॥ अनार्य्यमार्य्यकर्म्माणमार्य्यञ्चानार्य्यकर्म्मिणम् । सम्पधार्य्याब्रवीद्धाता न समौ नासमाविति ॥” इति मानवे ९ । १० अध्यायौ ॥ * ॥ वर्णसङ्करस्य कारणं दोषाश्च यथा, -- “अघर्म्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः ॥ उच्छन्नकुलधर्म्माणां मनुष्याणां जनार्द्दन ! । नरके नियतं वासो भवतीत्यनुशुश्रुमः ॥” इति श्रीभगवद्गीतायाम् १ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णसङ्कर¦ पु॰ सम् + कृ--अप् वर्णतः सङ्करः। विप्रादिभ्योवर्णेभ्योऽनुलोमजाते प्रतिलोमजाते मूर्द्धावसिक्तादौमागधादौ च जातिभेदे
“जायते वर्णसङ्करः” गीता। जातिशब्दे

३०

९३ तद्भेदादिकं दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णसङ्कर¦ m. (-रः)
1. Mixture or confusion of castes.
2. A man or tribe of mixed origin, or from a father and mother of different castes. E. वर्ण and सम + कृ-अप् सङ्कर mixture. वर्णतः सङ्करः |

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VARṆASAṄKARA : See under Ekādaśasaṅkara Varṇas.


_______________________________
*3rd word in left half of page 832 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वर्णसङ्कर&oldid=436836" इत्यस्माद् प्रतिप्राप्तम्