वस्त्र

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्रम्, क्ली, (वस्यते आच्छाद्यतेऽनेनेति । वस आच्छादने + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।) परिधानाद्युपयुक्तकार्पासादि- निर्म्मितवस्तु । कापड इति भाषा । तत्पर्य्यायः । आच्छादनम् २ वासः ३ चेलम् ४ वसनम् ५ अंशुकम् ६ । इत्यमरः ॥ सिचयः ७ प्रोतः ८ लक्तकः ९ कर्पटः १० शाठकः ११ कशिपुः १२ । इति जटाधरः ॥ वासनम् १३ द्बिचयम् १४ प्रोतम् १५ छादम् १६ वासम् १७ । इति शब्दरत्नावली ॥ * ॥ अस्य परिधानविधिर्यथा, भृगुः । “विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च । श्रौतं स्मार्त्तं तथा कर्म्म न नग्नश्चिन्तयेदपि ॥” विकक्षः परीधानासंवृतकच्छः । तथा च । “परीधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत् ॥” स्मृतिः । “वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् । एभिः कक्षैः परीधत्ते यो विप्रः स शुचिः स्मृतः ॥” बौधायनः । “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं तदच्छिन्नमुभयोस्तयोः ॥” प्रचेताः । दशा नाभौ प्रयोजयेत् । स्मृतिः । अधौतेन च वस्त्रेण नित्यनैमित्तिकीं क्रियाम् । कुर्व्वन् फलं न चाप्नोति दत्तं भवति निष्फलम् ॥” कुतपो नेपालकम्बलः ॥ * ॥ तर्पणात् पूर्ब्बं स्नानवस्त्रनिष्पीडननिषेधो यथा, -- “निष्पीडयति यः पूर्ब्बं स्नानवस्त्रन्तु तर्पणात् । निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह ॥” यावालिः । “स्नानं कृत्वार्द्रवासास्तु विण्मूत्रं कुरुते यदि । प्राणायामत्रयं कृत्वा पुनः स्नानेन शुद्ध्यति ॥ * ॥ नार्द्रमेकञ्च वसनं परिदध्यात् कथञ्चन ॥” हारीतः । आर्द्रञ्च सप्तवातहतमपि शुद्ध- मिति ॥ * ॥ मदनपारिजाते पारस्करः । एकञ्चेद्वासो भवति तस्योत्तरार्द्धेन प्रच्छादय- तीति । इत्याह्निकतत्त्वम् ॥ * ॥ संक्रान्त्यादौ वस्त्रनिष्पीडननिषेधो यथा । षट्त्रिंशन्मत- निगमौ । “संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे । वस्त्रं न पीडतेत्तत्र न च क्षारेण योजयेत् ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्र नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

2।6।115।2।1

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ। वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्.।

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्र¦ न॰ वस--ष्ट्रन्। परिधानाद्युपयुक्ते कार्पासादौ वसने। वस्त्रधारणगुणाः यथा
“स्नातस्यानन्तरं सम्यग्वस्त्रेणतनुमार्जनम्। कान्तिप्रदं शरीरस्य कण्डूयादोषनाश-नम्। कौषेयं चित्रवस्त्रञ्च रक्तवस्त्रं तथैव च। वात-श्लेष्महरं तत्तु शीतकाले विघारयेत्। ” कौषेयं पट्टा-म्बरं तसरवस्त्रञ्च।
“मेध्यं सुशीतं पित्तघ्नं काषायंवस्त्रमुच्यते। तद्धारयेदुष्णकाले तच्चापि लघु शस्यते। ” काषायं (कोकटी) इति लोके। कषायरागरक्तं वा।
“शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम्H। नचोष्णंनच वा शीतं तत्तु वर्षासु धारयेत्। यशस्यं काम्य-मायुष्यं श्रीमदानन्दबर्द्धनम्। त्वच्यं वशीकरं रुच्यंनवं निर्मलमम्बरम्। ” काम्यं कामोद्दीपकम्।
“कदापिन जनैः सद्भिर्धार्य्यं मलिनमम्बरम्। तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम्। ” अलक्ष्मीरशोभादारिद्र्यं वा। ” भावप्र॰अस्य परिधानविधिर्यथा भृगुः
“विकच्छोऽनुत्तरीयश्चनग्नश्चावस्त्र एव च। श्रौतं स्मार्त्तं तथा कर्म न नग्न-श्चिन्तयेदपि। विकच्छः परीघानाद् गलितकच्छः। तथा च
“परीधानात्वहिः कच्छा निबद्धा ह्यासुरी भवेत्” स्मृतिः
“वामे पृष्ठे तथा नाभौ कच्छत्रयमुदाहृतम्। एभिःकच्छैः परीधत्ते यो विप्रः स शुचिः स्मृतः”। वौधायनः
“नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी। अन्तरीयंप्रशस्तं तदच्छिन्नमुभयोस्तयोः। ” प्रचेताः
“दशा नाभौप्रयोजयेत्” स्मृतिः
“न स्यात् कर्मणि कञ्चुकीति”। उत्तरीयधारणं चोपवीतवत्
“यथा यज्ञोपवीतञ्चधार्य्यते च द्विजोत्तमैः। तथा सन्धार्य्यते यत्नादुत्तरा-च्छादनं शुभम्” स्मृतेः। अत्र यथा द्विजोत्तमैःसव्यापसव्यत्वादिना उपवीतं धार्य्यते तथा उत्तराच्छा-दनमपि द्विजोत्तमैरिति प्रदर्शनमात्रम् प्रागुक्तभृगु-वचनेन सर्वेषां द्विवस्त्रताप्रतीतेः” पारस्करः
“एकञ्चे-द्वासो भवति तस्य उत्तरार्द्धेण प्रच्छादयतीति” आ॰त॰ रघु॰।
“वस्त्रपरीधाननक्षत्रादि
“ब्रह्मानुराधवसुतिष्यवि-शाखहस्तचित्रोत्तराग्निपवनादितिरेवतीषु। जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौ धार्य्यं नवं वसनमीश्वरदेवतुष्ट्यै। ” ज्यो त॰।
“सूर्य्ये चाल्पधनं,[Page4866-a+ 38] व्रणः शशिदिने, क्लेशः सदा भूमिजे, वस्त्राणां बहुतावुधे, सुरगुरौ विद्यागमः सम्पदः। नानाभोगयुतप्रमोदशयनं विद्याङ्गना भार्गवे, शौरौस्युः खलु रोगशोककलहावस्त्रे धृते नूतने” कर्मलोचनम्। अस्य क्षारसंयोगनिषिद्धदिनानि यथा।
“मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्ध-वासरे। वस्त्राणां क्षारसंयोगात्दहत्यासप्तमं कुलम्। ” आ॰ त॰। परकीयवस्त्रधारणनिषेधो यथा
“आसनं वसनं शय्या जाया-पत्यं कमण्डलुः। आत्मनः शुचिरेतानि न परेषां कदा-चन”। ईषद्धौतादिवस्त्रस्य पश्चिमाग्रादिप्रसारितवस्त्रस्य चअधौतत्वं यथा,
“ईषद्धौतं स्त्रिया धौतं यद्धौतं रज-कस्य तु। अधौतं तद्विजानीद्दशादक्षिणपश्चिमे। ” कर्मलोचनम्। सत्यतपाः
“प्रागग्रमुदग्रं वा घौतंवस्त्रं प्रसारयेत्। पश्चिमाग्रं दक्षिणाग्रं पुनः प्रक्षा-लनात् शुचि” अत्राग्रं दशा वृक्षवत्। प्रचेताः
“स्वयंधोतेन कर्त्तव्या क्रिया धर्म्या विपश्चिता। न च रजक-घौतेन नाधौतेन भवेत् क्वचित्। पुत्रमित्रकलत्रेणस्वजातिबान्धवेन च। दासवर्गेण यद्धौतं तत् पवित्र-मिति स्थितिः”। स्नानोत्तरं उष्णीषवस्त्रस्य धार्य्यत्वंयथा उष्णीषधारणं शिरोजलापनयनाय। तेनम्नानानन्तरं धार्य्यम्। तथा च महाभारतम्
“आप्लुत-स्याधिवासेन जलेन च सुगन्धिना। राजहंसनिभं प्राप्यउष्णीषं शिथिलार्पितम्। जलक्षयनिमित्तं वै वेष्टया-मास मूर्द्धनि”। शिथिलार्पितम् अगाढबद्वम्। निषिद्ध-वस्त्राणि यथा भारते
“न स्यूतेन न दग्धेन पार-क्येण विशेषतः। मूषिकोत्कीर्णजीर्णेन कर्म कुर्य्याद्विच-क्षणः। ” नारसिंहे
“न रक्तमुल्वर्ण वासी न नीलञ्चप्रशस्यते। मलाक्तञ्च दशाहीनं वर्जयेदम्बरं बुधः। उल्वणम् उत्कटरक्तविशेषम्। आचाररत्ने उशना
“दशाहीनेन वस्त्रेण कुर्य्यात् कर्माण्यभावतः”। विष्णु-धर्मोत्तरे
“वस्त्रं नान्यधृतं धार्य्यं न रक्तं मलिनंतथा। जीर्णं वाऽपदशञ्चैव श्वेतं धार्य्यं प्रयत्नतः। उपानहं नान्यधृतां ब्रह्मसूत्रञ्च धारयेत्। न जीर्णमलव-द्वासा भवेच्च विभवे सति। ” योगियाज्ञवल्क्यः
“म्नात्वैवं वाससी धौते अक्लिन्ने परिधाय च। प्रला-ल्योरू मृदद्भिश्च हस्तौ प्रक्षालयेत्ततः। अभावे धौत-वस्त्राणां शाणक्षौमाविकानि च। कुतपो योगपट्टं वाद्विर्वासा येन वा भवेत्। अधौतेन च वस्त्रेण नित्यनैमि-[Page4866-b+ 38] त्तिकीं क्रियाम्। कुर्वन् फलं न चाप्नोति दत्तं भवतिनिष्कलम्”। कुतपो नेपालकम्बलः। तत्रापवादः
“राङ्गवे पट्टसूत्रे च सूचीविद्धं न दुष्यति” विधानपा॰
“नीलीरक्तं न दुष्यति” इति मिता॰ पाठः। तर्पणात् पूर्वंम्रानवस्त्र निष्पीडने निषेधो यथा
“निष्पीडयति यःपूर्वं स्नानवस्त्रन्तु तर्पणात्। निराशास्तस्य गच्छन्तिदेवाः पितृगणैः सह”। जावालिः
“म्नानं कृत्वार्द्रवासास्तुविण्मूत्रं कुरुते यदि। प्राणायामत्रयं कृत्वा पुनः स्नानेनशुध्यति। नार्द्रमेकञ्च वसनं परिदध्यात् कथञ्चन”। हारोतः
“आर्द्रञ्च सप्तवाताहतमपि शुद्धमिति”। संक्रान्त्यादौ वस्त्रनिष्पीडननिषेधो यथा षट्त्रिंशन्मत-निगमौ
“संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे। वस्त्रं न पीडयेत्तत्र नच क्षारेण योजयेत्” ति॰ त॰

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्र¦ n. (-स्त्रं)
1. Cloth, clothes, raiment.
2. Covering, a cover. E. वस् to wear, (as clothes,) ष्ट्रन् Una4di aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्रम् [vastram], [वस्-ष्ट्रन् Uṇ.4.172]

A garment, cloth, clothes, raiment; स्नातस्यानन्तरं सम्यग् वस्त्रेण तनुमार्जनम् । कान्ति- प्रदं शरीरस्य कण्डूयादोषनाशनम् ॥ कौषेयं चित्रवस्त्रं च रक्तवस्त्रं तथैव च । वातश्लेष्महरं तत्तु शीतकाले विधारयेत् ॥ मेध्यं सुशीतं पित्तघ्नं काषायं वस्त्रमुच्यते । तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ॥ शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम् । न चोष्णं न च वा शीतं तत्तु वर्षासु धारयेत् ॥ Bhāva., P.

Dress, apparel.

A leaf of the cinnamon tree. -Comp. -अगारः, -रम्, -गृहम् a tent. -अञ्चलः, अन्तः the hem of a garment.

आगारम् a clothier's shop.

a tent. -आधारकः a layer of cloth (placed underneath); Suśr. -उत्कर्षणम् the act of taking off clothes.

कुट्टिमम् a tent.

an umbrella. -ग्रन्थिः the knot of the lower garment (which fastens it near the navel); cf. नीवि. -घर्घरी a cloth for straining, sieve.-धारणी a thing to hang clothes upon. -धाविन् a. washing clothes. -निर्णेजकः a washerman. -परिधानम् putting on garments, dressing. -पुत्रिका a doll, puppet.-पूत a. filtered through a cloth; वस्त्रपूतं पिवेज्जलम् Ms.6. 46. -पेशी a fringe. -भेदकः, -भेदिन् m. a tailor. -योनिः the material of cloth (as cotton). -रजकम्, -रञ्जनम् safflower. -विलासः foppery in dress. -वेशः, -वेश्मन् a tent. -वेष्टित a. well-clad.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्र n. (or m. g. अर्धर्चा-दि; ifc. f( आ). )cloth , clothes , garment , raiment , dress , cover RV. etc.

वस्त्र n. a leaf of the cinnamon tree L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vastra in the Rigveda[१] and later[२] denotes ‘dress,’ ‘clothing.’ See Yāsas.

  1. i. 26, 1;
    134, 4;
    iii. 39, 2;
    v. 29, 15, etc.
  2. Av. v. 1, 3;
    ix. 5. 25;
    xii. 3, 21, etc.
"https://sa.wiktionary.org/w/index.php?title=वस्त्र&oldid=504195" इत्यस्माद् पुनः प्राप्तिः