सामग्री पर जाएँ

वाक्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्यम्, क्ली, (उच्यते इति । वच् + ण्यत् । “चजोः कु घिण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् । शब्दसंज्ञात्वात् “वचोऽशब्दसंज्ञायाम् ।” ७ । ३ । ६७ । इति निषेधो न ।) पदसमुदायः । इति व्याकरणम् ॥ तिङ्न्तचयः । सुबन्तचयः । कारकान्विता क्रिया । इत्यमरः । इह श्रुति- लोकयोस्त्रिविधं निरुक्तं वाक्यमुक्तम् । तिङ्- सुबन्तयोश्चयः समुदायः कारकान्विता क्रिया च वाक्यम् । तिङ्शब्देन तिबादीनि साशीति- शतसंख्यकानि वचनानि उच्यन्ते । एवं सुप्- शब्देन स्यादीन्येकविशतिरुच्यन्ते द्वन्द्वात् परं यः श्रूयते लभतेऽसौ प्रत्येकं अभिसम्बन्धमित्यन्त- शब्द उभयोरपि सम्बध्यते । अत्र तिङन्तसमूहो यथा । पचति भवति पाको भवति इत्यर्थः । एतच्छान्दसमेव । सुबन्तसमूहो यथा । प्रकृति- सिद्धमिदं हि महात्मनाम् । धात्वर्थः क्रिया कारकैः कर्त्त्रादिभिरन्विता सम्बन्धार्था कारका- न्विता अन्वितत्वञ्च क्रियाकारकाणां आकाङ्क्षा- योग्यतासन्निधिवशात् ज्ञेयम् । तिङ्सुबन्तचया- त्मकेऽपि सम्बद्धार्थता बोध्या असम्बद्धार्थस्याप्रयो- गात् अतएव परस्पराभिसम्बन्धः पदसमूहो वाक्यमिति वृद्धाः । कारकान्विता क्रिया यथा । देवदत्तो ग्रामं गच्छति । इति तट्टीकायां भरतः ॥ * ॥ वाक्यस्वरूपमाह । “वाक्यं स्यात् योग्यताकाङ्क्षासत्तियुक्तः पदो- च्चयः । वाक्योच्चयो महावाक्यमित्थं वाक्यं द्बिधा मतम् ॥” उक्तञ्च । “स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संभूय जायते ॥” इति ॥ अत्र वाक्यं यथा । शून्यं वासगृहमित्यादि । महावाक्यं यथा । रामायणमहाभारतरघु- वंशादिः । इति साहित्यदर्पणे २ परिच्छेदः ॥ * ॥ अप्रियवाक्यभाषणनिषेधो यथा, -- “न हिंस्यात् सर्व्वभूतानि नानृतञ्च वदेत् क्वचित् । नाहितं नाप्रियं वाक्यं न स्तेनः स्यात् कदा- चन ॥ * ॥ पाषण्डादिभिर्भाषणनिषेधो यथा, -- “पाषण्डिनो विकर्म्मस्थान् वामाचारांस्तथैव च । पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्च्च- येत् ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥ * ॥ शुभाशुभवाक्यानि यथा, -- “नैव राज्येन महता न वै वार्थस्य राशिभिः । प्राप्यते ज्ञानकथनं परलोकसुभाषितम् ॥ स्वर्गापवर्गसिद्ध्यर्थभाषितं यत् सुशोभनम् । वाक्यं मुनिवरैः शान्तैस्तद्विज्ञेयं सुभाषितम् ॥ रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् । वाक्त्यं निरयहेतुत्वात् तदभाषितमुच्यते ॥ संस्कतेनापि किं तेन मृदुना ललितेन वा । अविद्या रागवाक्येन संसारक्लेशहेतुना ॥ यत् श्रुत्वा जायते पुण्यं रागादीनाञ्च संक्षयः । निरुद्धमपि तद्वाक्यं विज्ञेयमतिशोभनम् ॥” इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामा- ध्यायः ॥ (अत्र वाक्यदोषो यथा, -- “वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे न्यूनमधि- कमनथकमपार्थकं विरुद्धञ्चेति । तत्र हेतूदा- हरणोपनयनिगमनानामन्यतमेनापि न्यूनं न्यूनं भवति यद्वा बह्वपदिष्टहेतुकमेकेन साध्यत हेतुना तच्च न्यूनं एतानि ह्यन्तरेण प्रकृतोऽप्यर्थः ॥ प्रण- श्येत ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्य नपुं।

तिङ्सुबन्तचयः_कारकान्विता_क्रिया

समानार्थक:वाक्य

1।6।2।2।1

अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः। तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्य¦ न॰ वच--ण्यत् चस्य कः।
“वाक्यं स्याद् योग्यताका-ङ्क्षासत्तियुक्तः पदोच्चयः” इत्युक्ते

१ पदसंघे सा॰ द॰।

२ स्वार्थ-बोधसमाप्ते पदसमुदाये वैयाकरणाः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्य¦ n. (-क्यं)
1. A sentence.
2. A rule or aphorism.
3. Speech.
4. (In astronomy,) The solar process for all astronomical computations. E. वच् to speak, ण्यत् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्यम् [vākyam], [वच्-ण्यत् चस्य कः]

Speech, words, a sentence, saying, what is spoken; शृणु मे वाक्यम् 'hear my words', 'hear me'; वाक्ये न संतिष्ठते 'does not obey'; संक्षिप्तस्याप्यतो$स्यैव वाक्यस्यार्थगरीयसः Śi.1.2.24.

A sentence, period (complete utterance of a thought); वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः S. D.6; पदसमूहो वाक्यम् Tarka K.; श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा K. P.1.

An argument or syllogism (in logic).

A precept, rule, an aphorism.

(In astr.) The solar process for all astronomical computations.

An assertion, statement.

Command.

(In law) Declaration, legal evidence.

Betrothment. -Comp. -आडम्बरः bombastic language.

अर्थः the meaning of a sentence.

(in Mīmāṁsā) the sense of a sentence derived on the strength of वाक्यप्रमाण as distinguished from श्रुति, लिङ्ग and other प्रमाणs. This is weaker than and hence sublated by the श्रुत्यर्थ or श्रुति; यत्र श्रुत्यर्थो न संभवति तत्र वाक्यार्थो गृह्यते ŚB. on MS. 6.2.14. वाक्यार्थः श्रुत्या बाध्यते ŚB. on MS.6.2.14. According to Mīmāṁsā view the अर्थs of पदs are सामान्य and when these form a sentence to yield the वाक्यार्थ, they get restricted or modified. Hence वाक्यार्थ means the पदार्थs modified or restricted; सामान्येनाभिप्रवृत्तानां पदार्थानां यद्विशेषे$वस्थानं स वाक्यार्थः ŚB. on MS.3.1.12. ˚उपमा a variety of Upamā according to Daṇḍin; वाक्यार्थेनैव वाक्यार्थः को$पि यद्युपमीयते । एकानेकेवशब्दत्वात् सा वाक्यार्थोपमा द्विधा ॥ Kāv.2.43.-आलापः conversation, discourse. -उपचारः speaking; Rām. -खण्डनम् refutation of an assertion or argument. -ग्रहः paralysis of speech. -पदम् a word in a sentence. -पदीयम् N. of a work attributed to Bhartrihari. -पद्धतिः f. the manner of composing sentences, diction, style. -परिसमाप्तिः f. Completion of a sentence (i. e. the application of the sense expressed by a sentence). This occurs in two ways; (i) the sense of the sentence as a whole may be predicated of the things or persons mentioned in the उद्देशपद severally; or (ii) it may be predicated of them all combined together. The former is known as प्रत्येकं वाक्यपरिसमाप्तिः and is illustrated by देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्ताम्; while the latter is known as समुदाये वाक्यपरिसमाप्तिः and illustrated by गर्गाः शतं दण्ड्यन्ताम्; see ŚB. on MS.3.1.12.

प्रबन्धः a treatise, connected composition.

the flow of sentences. -प्रयोगः employed of speech, use of language. -भेदः a different assertion, a divergent statement; संदिग्धे तु व्यवायाद् वाक्यभेदः स्यात् MS.3.1.21; वाक्यभेदान् बहूनगमत् Mu.2. -रचना, -विन्यासः arrangement of words in a sentence, syntax. -विलेखः An officer in charge of writing of accounts, orders etc. ततो वाक्यविलेखाख्यैर्दत्तोपन्तैः स्वशक्तितः Parṇāl.4.55. -विशारदa. eloquent, skilled in speech.

शेषः the remainder of a speech, an unfinished or incomplete sentence; सदोषावकाश इव ते वाक्यशेषः V.3.

an elliptical sentence.-सारथिः Spokesman. -स्थ a. Obsequious; attentive.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्य etc. See. p. 936 , col. 2.

वाक्य n. ( ifc. f( आ). )speech , saying , assertion , statement , command , words( मम वाक्यात्, in my words , in my name) MBh. etc.

वाक्य n. a declaration (in law) , legal evidence Mn.

वाक्य n. an express -decldeclaration or statement ( opp. to लिङ्ग, " a hint " or indication) Sarvad.

वाक्य n. betrothment Na1r.

वाक्य n. a sentence , period Ra1matUp. Pa1n2. Va1rtt. etc.

वाक्य n. a mode of expression Cat.

वाक्य n. a periphrastic mode of expression Pa1n2. Sch. Siddh.

वाक्य n. a rule , precept , aphorism MW.

वाक्य n. a disputation MBh.

वाक्य n. (in logic) an argument , syllogism or member of a syllogism

वाक्य n. the singing of birds Hariv.

वाक्य n. (in astron. ) the solar process in computations MW.

"https://sa.wiktionary.org/w/index.php?title=वाक्य&oldid=504207" इत्यस्माद् प्रतिप्राप्तम्