वाङ्मय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाङ्मयम्, त्रि, (वाक्स्वरूपम् । वाच् + मयट् ।) वाक्यात्मकम् । यथा, -- “न्यरस्तजभ्नगैर्लान्तैरेभिर्द्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥” अपि च । “पद्यं गद्यमिति प्राहुर्व्वाङ्मयं द्बिविधं बुधाः । प्रागुक्तलक्षणं पद्यं गद्यं संप्रति गद्यते ॥” पद्यं यथा, -- “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्बितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥” गद्यं यथा । “अपादः पदसन्तानो गद्यं तत्तु त्रिधा मतम् । चूर्णकोत्कलिकाप्रायवृत्तगंन्धिप्रभेदतः ॥ अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः । तद्धि वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ भवत्युत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् । वृत्तैकदेशसम्बन्धाद्वृत्तगन्धि पुनः स्मृतम् ॥” इति छन्दोमञ्जरी ॥ * ॥ वाङ्मयपापानि यया, -- “पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः । असम्बन्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥” तथा परुषवचनमपवादः पैशुन्यमनृतं वृथा- लापो निष्ठुरवचनं इति वाङ्मयानि षट् । परेषां देशजातिकुलविद्याशिल्परूपवृत्ताचार- परिच्छदशरीरकर्म्मजीविनां प्रत्यक्षदोषवचनं परुषम् । “यच्चान्यत् क्रोधसन्तापत्राससंजननं वचः । परुषं तच्च विज्ञेयं यच्चान्यच्च तथाविधम् ॥ चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्मणेति च । प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते ॥” तेषामेव परुषवचनानां परोक्षमुदाहरणं अपवादः । गुरुनृपतिबन्धुभ्रातृमित्रसकाशे अर्थोपघातार्थं दोषोपाख्यानं पैशुन्यम् । अनृतं द्विविधं असत्यमसंवादश्चेति । “देशराष्ट्रप्रसङ्गाच्च परार्थपरिकल्पनात् । नर्म्महासप्रसङ्गाच्च भाषणं व्यर्थभाषणम् ॥ गुह्याङ्गामेध्यसंज्ञानां भाषणं निष्ठुरं विदुः । यदन्यद्बा वचो नीचस्त्रीपुंसोर्मिथुनाश्रयम् ॥ इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य भाषणात् । इह चामुत्र च क्ररमनर्थं प्रतिपद्यते ।” प्रशंसया निन्दनं प्रशंसानिन्दनम् । अत्र चतु- र्व्विधषड्विधयोरविरोधः । समक्षत्वासमक्षत्व- भेदानादरेण पारुष्पापवादयोरैक्यात् निष्ठुरस्य परुषान्तर्भावाच्च । असम्बद्धप्रलापव्यर्थभाष- णयोः पर्य्यायत्वान्नार्थान्तरम् । इति तिथ्यादि- तत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाङ्मय¦ त्रि॰ वाक्स्वरूपम् मयट् चस्य कः तस्य ङः।

१ वाक्य-स्वरूपे शास्त्रे।

२ वाक्यजनिते पापभेदे च।
“पारुष्यमनृतञ्चैवपैशुन्यञ्चापि सर्वशः। असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतु-र्विधम्” मनुः। तथा
“परुषवचनमपवादः पैशुन्यमनृतंवृथालापो नि{??}रवचनम् वाङ्मयानि षट्। परेषां देश-जातिकुलविद्याशिल्परूपवृत्ताचारपरिच्छदशरीरकर्मजी-विनां प्रत्यक्षदोषवचनं परुषम।
“यच्चान्यत् क्रोधस-न्तापत्राससंजननं वचः। परुषं तच्च विज्ञेयं यच्चान्यच्चतथाविघम्। चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्म-णेति च। प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते”। तेषामेव परुषवचनानामपरोक्षमुदाहरणम् अपवादः। गुरुनृपतिवन्धुभ्रातृमित्रसकाशे अर्थोपघातार्थं दोषो-[Page4871-b+ 38] पाख्यानं पैशुन्यम्। अनृतं द्विविधं असत्यमसंवाद-{??}ति
“देशराष्ट्रप्रसङ्गाच्च परार्थपरिजल्पनात्। नर्महास-प्रसङ्गाच्च भाषणं व्यर्थभाषणम्। गुह्याङ्गामेध्यसंज्ञानांभाषणं निष्ठुरं विदुः। यदन्यद् वा वचो नीचस्त्रीपुंसो-र्मिथुनाश्रयम्। इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य भाष-णात्। इह चामुत्र च क्रूरमनर्थं प्रतिपद्यते”। प्रशं-सयानिन्दनं प्रशंसानिन्दनम्। अत्र चतुर्विधषड्विधयो-रविरोधः। समक्षत्वासमक्षत्वभेदानादरेण पारुष्याप-वादयोरैक्यात् निष्ठुरस्य परुषान्तर्भावाच्च। असम्बद्ध-प्रलापव्यर्थभाषणयोः पर्य्यायत्वान्नार्थान्तरम्” ति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाङ्मय¦ mfn. (-यः-यी-यं)
1. Eloquent, rhetorical. n. (-यं)
1. Eloquence.
2. Rhetorical composition, rhetoric, belles lettres. f. (-यी) SARAS- WATI
4. E. वाक् speech, and मयट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाङ्मय [vāṅmaya], a. (-यी f.)

Consisting of words; लिपेर्यथावद्- ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् R.3.28; इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः Śiva-mahimna 4.

Relating to speech or words; Ms.12.6; स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते Bg.17.15.

Endowed with speech; अयमात्मा वाङ्मयो मनोमयः प्राणमयः Bṛi. Up.1.5.3.

Eloquent, rhetorical, oratorical.

यम् Speech, language; म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना Chand. M.1.7; द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वती तन्मि- थुनं नुनाव Ku.7.9; Śi.2.72.

Eloquence.

Rhetoric. -यी The goddess Sarasvatī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाङ्मय/ वाङ्--मय mf( ई)n. consisting of speech , depending on -spspeech , whose essence is -spspeech , relating to -spspeech (also 690130 -त्वn. ) S3Br. VS. Pra1t. ChUp. etc.

वाङ्मय/ वाङ्--मय mf( ई)n. eloquent , rhetorical W.

वाङ्मय/ वाङ्--मय n. -spspeech , language Kum.

वाङ्मय/ वाङ्--मय n. eloquence , rhetoric , manner of -spspeech RPra1t. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=वाङ्मय&oldid=246249" इत्यस्माद् प्रतिप्राप्तम्